पृष्ठम्:Kalidasa's Śakuntala.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

69] पञ्चमो ऽङ्कः [-v.31.3 3पुरोधाः । अत्रभवती तावदा प्रसवादस्मदृहे तिष्ठतु । राजा । कुत इदम् । पुरोधाः । त्वं साधुनैमित्तिकैरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिनं पुत्रं जन 6यिष्यसीति । स चेन्मुनिदौहित्रस्तलुक्षणोपपन्नो भवति ततः प्रतिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये त्वस्याः पितुः समीपगमनं स्थितमेव । राजा । यथा गुरुभ्यो रोचते । 9पुरोधाः । । उत्थाय ॥ वत्से । इत इतो ऽनुगच्छ माम् । शकुन्तला । भअवदि वसुंधरे । देहि मे अन्तरं । ॥ इति सह पुरोधसा तपखिभिगौतम्या च रुदती प्रस्थिता । राजा शापव्यवहितस्मृतिः शकुन्तलामेव चिन्तयति ॥ नेपथ्ये । आश्चर्यमाश्चर्यम् । राजा । । कर्ण दत्त्वा ॥ किं नु खलु स्यात् । 15प्रविश्य पुरोधाः । । सविस्मयम् ।। देव । अदुतं खलु वृत्तम् । राजा । किमिव । पुरोधाः । परावृत्तेषु कण्वशिष्येषु सा निन्दन्ती खानि भाग्यानि बाला बाहूत्क्षेपं रोदितुं च प्रवृत्ता । राजा । किं तदानीम् । खीसंस्थानं चाप्सरस्तीर्थमारा त्क्षिप्त्वैवाशु ज्योतिरेनां तिरो ऽभूत् ॥ ३१ ॥ ॥ सर्वे विस्मयं रूपयन्ति । राजा गुरो । प्रथममेवास्माभिरेषो ऽर्थः प्रत्यादिष्टः । किं मृषा तर्केणा । 3न्विष्यते । विश्राम्यताम् । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८९&oldid=83615" इत्यस्माद् प्रतिप्राप्तम्