w. 18.2 –]
शकुन्तला । । आत्मगतं सविषादम् । हिअअ । संवुत्ता दे आसङ्का ।
3शाङ्गरवः । राजन् । किं कृतकार्यद्वेषाद्धर्म प्रति विमुखतोचिता राज्ञः ।
राजा । कुतो ऽयमसत्कल्पनामसङ्गः ।
शाङ्गरवः । ॥ सक्रोधम् ॥ मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम् ।
6राजा । विशेषेणाधिक्षिप्तो ऽस्मि ।
गौतमी । ॥ शकुन्तलां प्रति ॥ जाद । मा लज्ज । अवणइस्सं दाव दे
अवगुण्ठणं । तदो भट्टा तुमं अहिजाणिस्सदि । । इति तथा करोति ।
9राजा । ।॥ शकुन्तलां निर्वण्यै । आत्मगतम् ॥
इदमुपनतमेवं रूपमष्टिकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यध्यवस्यन् ।
भ्रमर इव निशान्ते कुन्दमन्तस्तुषारं
न खलु सपदि भोक्तुं नापि शक्रोमि मोक्तुम् ॥ १९ ॥
प्रतीहारी । । स्वगतम् ॥ अहो धम्मावेक्खिदा भट्टिणो । ईदिसं णाम
सुहोवणदं इत्थीरदणं पेक्खिअ को अण्णो विआरेदि ।
3शाङ्गरवः । भो राजन् । किमिदं जोषमास्यते ।
राजा । भोस्तपस्विन् । न खलु स्वीकरणमत्रभवत्याः स्मरामि ।
चिन्तयन्नपि
तत्कथमिमामभिव्यक्तसत्त्वलक्षणामात्मानं क्षेत्रियमिव मन्यमानः प्रतिपत्स्ये ।
6शकुन्तला । ॥ खगतम् । हृद्धी हद्धी । कधं परिणए जेव संदेहो । भग्गा
दाणिं मे दूरारोहिणी आासालदा ।
शाङ्गरवः । मा तावत् ।
[64
सुतां त्वया नाम निर्विमान्यः ।
दुष्टं प्रतिग्राहयता खमर्थ
पात्रीकृतो दस्युरेिषासि येन ॥ २० ॥
Dated b (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/८४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
