पृष्ठम्:Kalidasa's Śakuntala.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w. 18.2 –] शकुन्तला । । आत्मगतं सविषादम् । हिअअ । संवुत्ता दे आसङ्का । 3शाङ्गरवः । राजन् । किं कृतकार्यद्वेषाद्धर्म प्रति विमुखतोचिता राज्ञः । राजा । कुतो ऽयमसत्कल्पनामसङ्गः । शाङ्गरवः । ॥ सक्रोधम् ॥ मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम् । 6राजा । विशेषेणाधिक्षिप्तो ऽस्मि । गौतमी । ॥ शकुन्तलां प्रति ॥ जाद । मा लज्ज । अवणइस्सं दाव दे अवगुण्ठणं । तदो भट्टा तुमं अहिजाणिस्सदि । । इति तथा करोति । 9राजा । ।॥ शकुन्तलां निर्वण्यै । आत्मगतम् ॥ इदमुपनतमेवं रूपमष्टिकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यध्यवस्यन् । भ्रमर इव निशान्ते कुन्दमन्तस्तुषारं न खलु सपदि भोक्तुं नापि शक्रोमि मोक्तुम् ॥ १९ ॥ प्रतीहारी । । स्वगतम् ॥ अहो धम्मावेक्खिदा भट्टिणो । ईदिसं णाम सुहोवणदं इत्थीरदणं पेक्खिअ को अण्णो विआरेदि । 3शाङ्गरवः । भो राजन् । किमिदं जोषमास्यते । राजा । भोस्तपस्विन् । न खलु स्वीकरणमत्रभवत्याः स्मरामि । चिन्तयन्नपि तत्कथमिमामभिव्यक्तसत्त्वलक्षणामात्मानं क्षेत्रियमिव मन्यमानः प्रतिपत्स्ये । 6शकुन्तला । ॥ खगतम् । हृद्धी हद्धी । कधं परिणए जेव संदेहो । भग्गा दाणिं मे दूरारोहिणी आासालदा । शाङ्गरवः । मा तावत् । [64 सुतां त्वया नाम निर्विमान्यः । दुष्टं प्रतिग्राहयता खमर्थ पात्रीकृतो दस्युरेिषासि येन ॥ २० ॥ Dated b (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८४&oldid=83607" इत्यस्माद् प्रतिप्राप्तम्