i. 17. 19-]
अभिज्ञानशकुन्तले दितीयोऽङ्गः
[26
राजा । इतस्तपखिकार्यमितो गुरुजनाज्ञा। उभयमप्यनतिक्रमणीयम् । तत्किमत्र
2ा विदूषकः । । विहस्य । भो । तिसङ्क विअ अन्तरा चिट्ट ।
राजा । सत्यमाकुलीकृतो ऽस्मि ।
कृत्ययोर्भिन्नदेशत्वाद्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्रोतः स्रौतोवहं यथा ॥ १८ ॥
॥ विचिन्त्य ॥ सखे । त्वमार्याभिः पुत्र इब गृहीतः । स भवानितः प्रतिनिवृत्य
तपखिकार्यव्यग्रतामस्माकं निवेद्य तत्रभवतीनां पुत्रकार्यमनुष्ठातुमर्हति ।
3 विदूषकः । भो । मा रक्खसभीरुअं मै अवगच्छ ।
राजा । ॥ मितं कृत्वा ॥ भो महाब्राह्मण । कथमिदं त्वयि संभाव्यते ।
विदूषकः । तेण हि राआणुओ विअ गन्तुं इच्छामि ।
6राजा । ननु तपोवनोपरोधः परिहरणीय इति सर्वानेवानुयात्रिकांस्त्वयैव
सह मेषयामि ।
विदूषकः । ॥ सगर्वम् ॥ ही ही । जुअराओो म्हि संवुत्तो ।
9राजा । ॥ आत्मगतम् ॥ चपलो ऽयं बटुः कदा चिदिमामस्मत्प्रार्थनाम
न्तःपुरेभ्यो निवेदयेत् । भवत्वेवं तावत् । । विदूषकं हस्ते गृहीत्वा प्रकाशम् ।
सखे माघव्य । ऋषिगौरवादाश्रमपदं गच्छामि । न खलु सत्यमेव
12तापसकन्यायामभिलाषो मे । पश्य ।
क वयं क परोक्षमन्मथो मृगशावैः सह वर्धितो जनः ।
परिहासविकल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ १९ ॥
विदूषकः । एवं णेदं । ॥ इति निष्क्रान्ताः सर्वे ॥
3 ॥ इत्याख्यानगुप्तिर्नाम द्वितीयो ऽङ्गः ॥
पृष्ठम्:Kalidasa's Śakuntala.djvu/४६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
