पृष्ठम्:Kalidasa's Śakuntala.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i. 17. 19-] अभिज्ञानशकुन्तले दितीयोऽङ्गः [26 राजा । इतस्तपखिकार्यमितो गुरुजनाज्ञा। उभयमप्यनतिक्रमणीयम् । तत्किमत्र 2ा विदूषकः । । विहस्य । भो । तिसङ्क विअ अन्तरा चिट्ट । राजा । सत्यमाकुलीकृतो ऽस्मि । कृत्ययोर्भिन्नदेशत्वाद्वैधीभवति मे मनः । पुरः प्रतिहतं शैले स्रोतः स्रौतोवहं यथा ॥ १८ ॥ ॥ विचिन्त्य ॥ सखे । त्वमार्याभिः पुत्र इब गृहीतः । स भवानितः प्रतिनिवृत्य तपखिकार्यव्यग्रतामस्माकं निवेद्य तत्रभवतीनां पुत्रकार्यमनुष्ठातुमर्हति । 3 विदूषकः । भो । मा रक्खसभीरुअं मै अवगच्छ । राजा । ॥ मितं कृत्वा ॥ भो महाब्राह्मण । कथमिदं त्वयि संभाव्यते । विदूषकः । तेण हि राआणुओ विअ गन्तुं इच्छामि । 6राजा । ननु तपोवनोपरोधः परिहरणीय इति सर्वानेवानुयात्रिकांस्त्वयैव सह मेषयामि । विदूषकः । ॥ सगर्वम् ॥ ही ही । जुअराओो म्हि संवुत्तो । 9राजा । ॥ आत्मगतम् ॥ चपलो ऽयं बटुः कदा चिदिमामस्मत्प्रार्थनाम न्तःपुरेभ्यो निवेदयेत् । भवत्वेवं तावत् । । विदूषकं हस्ते गृहीत्वा प्रकाशम् । सखे माघव्य । ऋषिगौरवादाश्रमपदं गच्छामि । न खलु सत्यमेव 12तापसकन्यायामभिलाषो मे । पश्य । क वयं क परोक्षमन्मथो मृगशावैः सह वर्धितो जनः । परिहासविकल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ १९ ॥ विदूषकः । एवं णेदं । ॥ इति निष्क्रान्ताः सर्वे ॥ 3 ॥ इत्याख्यानगुप्तिर्नाम द्वितीयो ऽङ्गः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४६&oldid=83542" इत्यस्माद् प्रतिप्राप्तम्