पृष्ठम्:Kalidasa's Śakuntala.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिज्ञानशकुन्तले ॥ उपगम्य ॥ जयति जयति खामी । खामिन् । गृहीतमृगप्रचारसूचितश्चा पद्मरण्यम् । तत्किमन्यदनुष्ठीयताम्। 3राजा । भद्रसेन । भग्रोत्साहः कृतो ऽस्मि मृगयापवादिना माधव्येन । सेनापतिः । । अपवार्य ॥ सखे माधव्य । दृढप्रतिज्ञो भव । अहं तावत्स्वा मिनश्चित्तमनुवर्तिष्ये । । प्रकाशम् ॥ देव । मलपत्येष वैधेयः । ननु प्रभुरेव 6निदर्शनम् । पश्यतु देवः । मेदश्छेदकृशोदरं लघु भवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमचित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ५ ॥ विदूषकः । । सरोषम् ॥ अवेहि रे उच्छाहइत्तआ अवेहि । अत्थभवं पइदिं आवण्णो । तुमं दाव दासीएपुत्तो अडईदो अडई आहिण्ड जाव सञ्जाल 3 मिअलोलुवस्स कस्स वि जुण्णरिच्छस्स सुहे णिवडिदो होसि । राजा । भद्रसेन । आश्रमसंनिकृष्टे स्थितो ऽस्मीति वचस्ते नाभिनन्दामि । अद्य तावत् गाहन्तां महिषा निपानसलिलं शृशैर्मुहुस्ताडितं छायाबद्धकदम्बक मृगकुल रामन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ ६ ॥ सेनापतिः । यथा प्रभविष्णवे रोचते । राजा । तेन हि निवर्तय पूर्वगतान्धनुग्रहिणः । यथा च सैनिकास्तपोवनं 3नाभिरुन्धन्ति दूरात्परिहरन्ति च तथा निषेद्धव्याः । पश्य । [20 गूढं हि दाहात्मकमस्ति तेजः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४०&oldid=83536" इत्यस्माद् प्रतिप्राप्तम्