19]
द्वितीयो ऽङ्कः
[-i.4.d
सहवसतिमुपेत्य यैः प्रियायाः कृत इव लोचनकान्तिसंविभागः ॥ ३ ॥
विदूषकः । । राजानमवलोक्य ॥ अत्थभवं किं पि हिअए कदुआ मन्तेदि ।
अरण्णे क्खु मए रुदिदं ।
3राजा । । सस्मितम् । किमन्यत् । अनतिक्रमणीयं सुहृद्राक्यमिति स्थितो
ऽस्मि ।
विदूषकः । । सपरितोषम् ॥ तेण हि चिरं मे जीव । । इत्युत्थातुमिच्छति ॥
6राजा । तिष्ठ । शृणु मे सावशेषं वचः ।
विदूषकः । आणबेदु भवं ।
राजा । विश्रान्तेन भवता ममान्यस्मिमनायासे कर्मणि सहायेन भवितव्यम्।
9विदूषकः । किं मोद अखजिआए ।
राजा । यद्वक्ष्यामि ।
विदूषकः । गहिदो खणो ।
12-राजा । कः को ऽत्र भोः ।
प्रविश्य दौवारिकः । आणवेदु भट्टा ।
राजा । रैवतक । सेनापतिस्तावदाहूयताम् ।
15दौवारिकः । तधा । ॥ इति निष्क्रम्य पुनः सेनापतिना सह प्रविश्य ॥ एदु एदु
अजो । एस आलावदिण्णकण्णो भट्टा इदो जेव चिट्टदि । उवसप्पदु
णं अजो ।
18सेनापतिः । । राजानमवलोक्य खगतम् ॥ कथं दृष्टदोषापि मृगवा स्वामिनि
केवलं गुणायैव संदृत्ता । तथा हि देवः
अनवरतधनुज्यस्फालनक्रूरकर्मा
रविकिरणसहिष्णुः खेदलेशैरभिन्न
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति ॥ ४ ॥
Dated b (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/३९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
