पृष्ठम्:Kalidasa's Śakuntala.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. 9. 7 –] तापसः । । हस्तमुद्यम्य ॥ भा भा राजन् । आश्रममृगः खल्वयम् । न खलु न खलु बाणः संनिपात्यो ऽयमस्मि न्मृदुनि मृगशरीरे पुष्पराशाविवाभिः । क वत हरिणकानां जीवितं चातिलोलं क च निशितनिपाताः सारषुङ्खाः शरास्ते ॥ १० ॥ तदाशु कृतसंधानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शत्रं न प्रहर्तुमनागसि ॥ ११ ॥ राजा । । सप्रणामम् ॥ एष प्रतिसंहृतः । ।॥ इति यथोक्तं करोति ॥ तापसः । ॥ सहर्षम् ॥ सदृशमेवैतत्पुरुवंशप्रभवस्य नरेन्द्रमदीपस्य भवतः । 3 सवेथोभयचक्रवर्तिनं पुत्रमामुहि । राजा । ॥ सप्रणामम् ॥ प्रतिगृहीतं ब्राह्मणवचः । तापसौ | राजन् । समिदाहरणाय प्रस्थितावावाम् । एष चास्मदुरोः 6कण्वस्य साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्यात्र गृह्यतामतिथिसत्कारः । अपि च । धम्यस्तपोधनानां प्रतिहतविघ्राः क्रियाः समभिवीक्ष्य । ज्ञास्यसि कियदुजो मे रक्षति मौवकिणाङ्क इति ॥ १२ ॥ राजा । अथ संनिहितस्तत्र कुलपतिः । तापसैौ । इदानीमेव दुहितरमतिथिसत्कारायादिश्य दैवमस्याः प्रतिकूलं शम 3यितुं सोमतीर्थं गतः । राजा । यद्येवं तामेव द्रक्ष्यामि । सैव विदितभक्तिम महर्षये निवेदयिष्यति । तापसैौ । एवं साधयावस्तावत् | ॥ इति सशिष्यो वैखानसो निष्क्रान्तः ॥ 6राजा। सूत । प्रेरयाश्चान् । पुण्याश्रमदर्शनेनात्मानं पुनीमहे तावत् । सूतः । यथाज्ञापयत्यायुष्मान् । ॥ इति भूयो रथवेगं रूपयति ॥ [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२४&oldid=83519" इत्यस्माद् प्रतिप्राप्तम्