पृष्ठम्:Kalidasa's Śakuntala.djvu/२३

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
3]
[-i.9.6
प्रथमो ऽङ्कः

शष्पैरर्धावलीद्वैः श्रमविवृतमुखभ्रशिभिः कीर्णवत्र्मा
पश्योदग्रयुतत्वाद्वियति बहुतरं स्तोकमुव्यौ प्रयाति ॥ ७ ॥

॥ सविस्मयम् ॥ कथमनुपतत एव मे प्रयत्रप्रेक्षणीयः संवृत्तः । सूतः । आयुष्मन् । उद्धातिनी भूमिरिति रश्मिसंयमनाद्रथस्य मन्दीभूतो वेगः । तेन मृग एष विप्रकृष्टः संवृत्तः । संमति समदेशवर्ती न ते दुरासदो भविष्यति । राजा । तेन हि विमुच्यन्तामभीशवः ।

सूतः । यथाज्ञापयत्यायुष्मान् । । रथवेगं रूपयित्वा ॥ आयुष्मन् । पश्य ।

मुक्तषु रश्मिषु निरायतपूर्वकायाः
खेषामपि प्रसरतां रजसामलक्षाः ।
निष्कम्पचामरशिखाश्युतकर्णभङ्गा
धावन्ति वत्र्मनि तरन्ति नु वाजिनस्ते ॥ ८ ॥

राजा । । सहर्षम् ॥ कथमतीत्य हरिणं हरयो वर्तन्ते । तथा हि

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्षे विच्छिनं भवति कृतसंधानमेिव तत् ।
प्रकृत्या यद्वकं तदपि समरेखं नयनयो
नै मे दूरे किं चित्क्षणमपि न पाश्र्वे रथजवात् ॥ ९ ॥

नेपथ्ये । भो भो राजन् । आश्रममृगो ऽयं न हन्तव्यो न हन्तव्यः । सूतः । । आकण्र्यावलोक्य च ॥ आयुष्मन् । अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्यान्तरायौ तपस्विनौ संवृत्तौ ।

राजा । । ससंभ्रमम् ॥ तेन हेि निगृह्यन्तामभीशवः । सूतः । यथाज्ञापयत्यायुष्मान् । ॥ इति तथा करोति ॥

॥ ततः प्रविशति सशिष्यो वैखानसः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२३&oldid=181892" इत्यस्माद् प्रतिप्राप्तम्