प्रथमो ऽङ्कः
राजा। । समन्तादवलोक्य ॥ अकथितो ऽपि ज्ञायत एव यथायमाभोग
9स्तपोवनस्य ।
सूतः । कथमिव ।
राजा । किं न पश्यसि । इह हि
अपि च ।
- -1. 14. [[C०
नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणामधः
मलिग्धाः कचिदिहदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किता ।। १३ ।।
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भाडुरायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १४ ॥
सूतः । सर्वमुपपन्नम् ।
राजा । । स्तोकमन्तरं गत्वा ॥ सूत । आश्रमोपरोधो मा भूत्तदिदैव रथं
3स्थापय याबदवतरामि ।
सूतः । धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजा । । अवतीर्यात्मानमवलोक्य च ॥ सूत । विनीतवेषप्रवेश्यानि तपोव
6नानि । तदिदं तावद्वङ्गतामाभरणं धनुश्च । ॥ इति सूतस्यार्पयति ॥ यावदा
श्रमवासिनः प्रत्यवेक्ष्य निवर्तिष्ये तावदापृष्ठाः क्रियन्तां वाजिनः ।
सूतः । यथाज्ञापयसि । ॥ इति निष्क्रान्तः ॥
9राजा । । परिक्रम्यावलोक्य च । इदमाश्रमपदम् । यावत्प्रविशामि । ॥ प्रविष्टकेन
निमित्तं सूचयित्वा ॥ अये ।
0.८०० (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/२५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
