पृष्ठम्:Jyautisha Vedangam.pdf/42

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२५
सुधाकरभाष्यसहितम् ।

मभीष्टनक्षत्रसम्बन्धि सावनदिनमानमागच्छति तत्र नवभिर्नवभिर्नक्षत्रैरेकैकं दिनमपनेयं तदा तद्वास्तवं मानं ज्ञेयमन्यथा स्थूलमित्यर्थः ।

 अत्रोपपत्तिः । रवियुगनक्षत्रैः ५ x २७ = १३५ युगसावनदिनानि १८३० लभ्यन्ते तदैकेन किमिति लब्धमेकरविनक्षत्रे सावनमानम्= = = = १३ ६/९ =१३+ - =१३+ - =(१४-१/३)-१/९ इदमभीष्टनक्षत्रमानगुणमभीष्टनक्षत्रमानसम्बन्धि सावनदिनमानम् = (१४-) न – न/९ । अत्राचार्येण प्रथमं प्रथमखण्डभवं फलं साधितं तत्र द्वितीयखण्डफलं यन्नवभिर्नवभिर्नक्षत्रैरेकमेकमुपलभ्यते तस्य शोधनं साधूक्तम् । अत्र बार्हस्पत्यव्याख्यानादिकं न साध्विति । तत्र "द्वावुत्तमे” तथा ‘अवेद्यः' इति पाठोऽपि न साधीयानिति ॥ २७ ॥

इदानीं पूर्वोदितानां साधनानां मूलरूपमब्ददिनाद्याह ।
त्रिशत्यह्नां सषट्षष्टिरब्दः षट् चर्त्तवोऽयने ।
मासा द्वादश सौराः स्युरेतत् पञ्चगुणं युगे ॥ २८ ॥
उदया वासवस्य स्युर्दिनराशिः सपञ्चकः ।
ऋषेर्द्विषष्ट्या हीनः स्याद्विंशत्या सैकया स्तृणाम् ॥ २९ ॥
पञ्चत्रिंशं शतं पौष्णमेकोनमयनान्यृषेः ।
पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कला ॥ ३० ॥ :
सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका ।
द्युत्रिंशत् सावनस्याब्दः सौरः स्तॄणां स पर्ययः ॥ ३१ ॥

 सषट्षष्टिः षट्षष्टिसहिता अह्नां रविसावनदिनानां त्रिशती अब्दः । सौराब्दो भवति । तस्मिन् सौराब्दे ऋतवः षट् अयने द्वे अयने

सौरा मासाश्च द्वादश भवन्ति । एतत् सर्वं पञ्चगुणं तदा युगे तेषां मानानि भवन्ति ॥ पूर्वविधिना युगे यो दिनराशिः सूर्यसावनार्हगणः स सपञ्चकः पञ्चभिः सहितस्तदा युगे वासवस्य धनिष्ठाया उदयाः स्युः ।

 
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/42&oldid=204597" इत्यस्माद् प्रतिप्राप्तम्