पृष्ठम्:Jyautisha Vedangam.pdf/43

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२६
याजुषज्यौतिषं

अत्र धनिष्ठाग्रहणमुपलक्षणार्थम् । तेन पूर्वागता संख्या सर्वेषां नक्षत्राणामुदया भभ्रमा भवन्ति क्रान्तिवृत्तस्थानां सर्वेषां नक्षत्राणां समानकालेन भ्रमणात् । स दिनराशिर्द्विषष्ट्या हीनस्तदा ऋषेश्चन्द्रस्योदयाः सावनदिवसा भवन्ति । स एव दिनराशिः सैकया विंशत्या एकविंशत्या हीनस्तदा स्तृणां नक्षत्राणामर्थाच्चन्द्रनक्षत्राणां मानानि स्युः ॥ पौष्णं सौरं नक्षत्रमानं युगे पञ्चत्रिंशं शतं पञ्चत्रिंशदधिकं शतं १३५ भवति । तदिदं १३५ मान- मेकोनं तत्प्रमाणानि युगे ऋषेश्चन्द्रस्यायनानि भवन्ति । युगे यानि चन्द्रपर्वाणि चतुर्विंशत्यधिकशतमितानि भवन्ति तेषां चतुर्थांशः पर्वपादः कथ्यते तेन युगे पर्वणां चतुष्पादी चतुर्विंशत्यधिकशतमितानि एतन्मितानां काष्ठानां चैका कला भवतीत्यर्थः ॥ षष्टिः क्रमेण एकेन द्विकेन सप्तभिर्युता तदा क्रमेण सावनमाससंख्या = ६१ । चान्द्रमाससंख्या = ६२ । स्तृमासानां नक्षत्रमासानां संख्या = ६७ । द्युत्रिंशत् सावनदिनानां त्रिंशत् सावनो मासो भवति । यः सौरोऽब्दः स एव स्तॄणां नक्षत्राणां पर्ययो भ्रमोऽर्थात् सौराब्दकालेन रविरेकं नक्षत्रगणं भुनक्ति ॥

 अत्रोपपत्तिः । अत्र वेधेन सौरवर्षे स्थूलाः ३६६ सावनदिवसा आनीताः । ते पञ्चगुणा युगे सावना दिवसाः = १८३० । “भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा" - इति भास्करोक्तिवैपरीत्येन युगे भभ्रमाः = १८३० + ५ = १८३५ । युगे चान्द्रमासाः = ६२ । एते रविचन्द्रभगणान्तरसमा अतो विलोमेन युगे चन्द्रभगणाः = ६२+ ५= ६७ । अथोक्तभास्करविधिनैव चन्द्रसावनदिवसाः = भभ्र - चंभ = १८३५ - ६७ = १८३० - ६२ = १७६८ । युगे चन्द्रभगणाः सप्तविंशतिगुणास्तन्नक्षत्राणां मानम् = ६७ x २७ = १८०९ = १८३० - २१ । युगे रविभगणाः सप्तविंशतिगुणास्तन्नक्षत्रमानम् = ५ x २७ = १३५ । युगे चन्द्रभगणा द्विगुणास्तान्ययनमानानि = ६७ × २ = १३४ = १३५ - १ । चन्द्रो यावता कालेनैकं नक्षत्रगणं भुनक्ति स एव कालो नक्षत्रमास इति सांहितिका वदन्ति । तथा च सिद्धान्ततत्त्वविवेके कमलाकरः “भचक्रैकभोगाद्विधोः केचिदार्क्षं वदन्त्यत्र मासं बुधाः संहितासु” - इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/43&oldid=204637" इत्यस्माद् प्रतिप्राप्तम्