पृष्ठम्:Jyautisha Vedangam.pdf/15

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उपोद्धात:

२४. श्लो. न कश्चिद्विशेषस्तथाऽपि मद्भाष्यं बार्हस्पत्यस्य व्याख्यानमपि साधु विलोक्यम् ।

२५. श्लो. बार्हस्पत्यस्य व्याख्यानं न समीचीनम् । तेन गणितेन भांशा आनीतास्ते केवलं नोपयुक्ताः । (द्र. जुलाईमा. हि. रि. पृ. ६२) किन्त्विह शङ्करबालकृष्णदीक्षितेन यथा व्याख्यातं तथैव मन्मतमतः सोपपत्तिकं मद्भाष्यं विलोक्यम् ।

२६. श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च मन्मते न शुद्धम् । (द्र. जुलाईमा. हि. रि. पृ. ६३--६४) अत्र मदीयं भाष्यं सोपपत्तिकं विलोक्यम् ।

२७. श्लो. बार्हस्पत्यस्य शोधितपाठो न शोभनस्तथा तस्य व्याख्यानं गणितं च न साधु । (द्र. जु.मा. हि. रि. पृ. ६४--६५) अतः सोपपत्तिकं मद्भाष्यं विलोक्यम् ।

२८-३१.श्लो. न कश्चिद्विशेषः । कुत्रचित् पाठवैलक्षण्यान्मद्भाष्यं विलोक्यम् । बार्हस्पत्यमतं च सम्यक् ।

३२-३४. श्लो. न कश्चिद्विशेषः । तथाऽपि शोभनपाठार्थं मद्भाष्यं विलोक्यम् । बार्हस्पत्यादिव्याख्यानमपि समीचीनम् ।

३५. श्लो. बार्हस्पत्यव्याख्यानं न शोभनम् । मद्भाष्यं विलोक्यमिह ।

३७. श्लो. बार्हस्पत्यव्याख्यानं साधुकल्पमतो मद्भाष्यं विलोक्यम् ।

३८-४१. श्लो. न विशेषः ।

४२. श्लो. न कश्चिद्विशेषस्तथाऽपि संप्रत्युग्रादौ नक्षत्रान्तरत्वान्मद्भाष्यं विलोक्यम् ।

४५. श्लो. अत्र बार्हस्पत्यस्य 'वेदविद्' इति पदे 'वेद विद्' इति पदद्वयं शोभनमेतदर्थं मद्भाष्यं विलोक्यम् ।


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/15&oldid=204406" इत्यस्माद् प्रतिप्राप्तम्