१४ .श्लो. ‘त्रिपद्यायाः’ इति बार्हस्पत्यपाठो न शोभनः । (द्रष्टव्यं सेप्टेम्बरमा. हि. रि. पृ. २६१) मद्भाष्यमिह विलोक्यम् ।
१५.श्लो. बार्हस्पत्यव्याख्यानं दूरतो भ्रष्टम् (द्र. अगस्तमा. हि.रि. पृ. १५७) तदर्थं मद्भाष्यं विलोक्यम् ।
१६.श्लो. डा. थिबोमहाशयव्याख्यानं समीचीनम् । अत्र बार्हस्पत्योपपत्तिः समीचीना तथाऽपि प्राचीनै: कुट्टकेन कथमानीतं भांशज्ञानतो नक्षत्रमित्यत्र मदुपपत्तिर्विचिन्त्या ।
१७ .श्लो. बार्हस्पत्यव्याख्यानं न स्फुटम् (द्र.सेपटेम्बरमा.हि.रि. पृ. २६५-२६६) अत्र मद्भाष्यं विलोक्यम् ।
१९ .श्लो. बार्हस्पत्यव्याख्यानं तद्गणितं न साधु । (अगस्तमा.हि.रि. पृ. १६६-१६७) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम्।
२०. श्लो. बार्हस्पत्येन तिथिशब्दस्यार्थान्तरं कृत्वा निजव्याख्यानं नाशितमिव (द्र. अगस्तमा. हि. रि. पृ. १६७) अतो मदीयं भाष्यमुपपादनं च द्रष्टव्यम् ।
२१.श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च न सम्यक् (द्र.अगस्तमा. हि. रि. पृ. १६७-१६८) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
२२ .श्लो. बार्हस्पत्यव्याख्यानं न साधु (द्र. अगस्तमा. हि. रि. पृ. १६३ ) अत्र मद्भाष्यं विलोक्यम् ।
२३ .श्लो. बार्हस्पत्यव्याख्यानं न स्फुटम् । (द्र. जुलाईमा. हि. रि. पृ. ६२) अतो मदीयं भाष्यं गणितं च द्रष्टव्यम् ।
२३. श्लो. बार्हस्पत्यस्य व्याख्यानं गणितं च समीचीनं तथाऽपि मद्भाष्यं विलोक्यम् ।