र्थकं स्यात् । (द्रष्टव्यं सन्. १९०६ मार्चमासस्य हिन्दुस्तानरिव्यू पृ. २४५) अत: साधु मद्भाष्यं विलोक्यम्।
२. श्लो. यद्यपि न कश्चिद्विशेषस्तथाऽपि याजुष आर्चे चोभयत्र मद्भाष्यम् विलोक्यम् । बार्हस्पत्यस्य शङ्करबालकृष्णदीक्षितव्याख्यानुरूपं व्याख्यानं च शोभनम् ।
३-४.श्लो. न कश्चिद्विशेषस्तथाऽपि मद्भाष्यं द्रष्टव्यम् । बार्हस्पत्यादिव्याख्यानं च समीचीनम् । ‘ये बृहस्पतिना भुक्ता'-इत्यस्य क्षेपकत्वे द्रष्टव्यं मद्भाष्ये कारणं च ।
५. श्लो. न कश्चिद्विशेषः ।
६-८. श्लो. अत्र ‘अर्कस्तु' इति पाठो न शोभनोऽतः सोपपत्तिकं मदीयं भाष्यं द्रष्टव्यम् ।
९. श्लो. 'द्विर्युग्माद्यम्' इति पाठो न शोभनः । ऋतुशब्दस्य विलक्षणं दुर्ग्राह्यं च बार्हस्पत्यव्याख्यानम् । (द्रष्टव्यं मे, जून मास- हिन्दु०रिव्यू पृ. ४३६) अत्र मद्भाष्यं विलोक्यम् ।
१०.श्लो. अत्र यद्यपि न विशेषस्तथाऽपि न हि कुत्रापि धातृ-शब्देनार्थमग्रहणमतो द्रष्टव्यो मच्छोधितः पाठः ।
११.श्लो. अत्र बार्हस्पत्यव्याख्यानमसारं न तत्त्वार्थप्रतिपादकम् । (द्रष्टव्ये सेपटेम्बरमासस्य हिन्दुस्तानरिव्यू पृ.२६६–२६७) अत: सोपपत्तिकं मद्भाष्यं विलोक्यम् ।
१२. श्लो. अत्र वेबरपाठो बार्हस्पत्यपाठो वा 'दुर्हेयम्' इति न वास्तवार्थदस्ततो मत्पाठो विचिन्त्यः सुधीभिः ।
१३.श्लो. अत्र बार्हस्पत्यव्याख्यानं समीचीनं परन्तु तद्गणितेन सावयवः पर्वराशिरायाति (द्रष्टव्यं जुलाई मा. हि. रि. पृ. ५९) अत्र सोपपत्तिकं मद्भाष्यं विलोक्यम् ।