पृष्ठम्:Jyautisha Vedangam.pdf/16

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उपोद्धात:

अथार्चज्यौतिषे श्लोका याजुषोक्ता एव विशेषाश्च--

१३. श्लो. अत्र बाहेस्पत्यस्य व्याख्यानं गणितं शोधनं च न समीचीनम् । (द्र. अगस्तमा, हि. रि. पृ १६३-१६५) अतो मदीयं भाष्यं गणितं च विलोक्यम् ।

१७.श्लो. अत्र वेबर-बार्हस्पत्ययोः ‘कुम्भका' ‘कुटपै:' इति पाठद्वयं न साधु । बार्हस्पत्येन (अप्रिलमा. हि. रि. पृ. ३१९) याजुषार्चयोः श्लोकसाम्यं प्रदर्शितं तदपि न श्लोकयोर्वैषम्यात् । अतो मदीयं भाष्यं विलेक्यम् ।

१९.श्लो. अत्र बालगङ्गाधरतिलक-बार्हस्पत्यादीनां व्याख्यानमशुद्धम् । न हि कुत्राप्यभ्यस्तपदेन योजनं दृश्यते । तथा मन्मते 'गुण'स्थाने ‘गण'पाठः ‘सूर्यात्' स्थाने च ‘स्वार्क्षात्' पाठः साधीयान् । (द्र. मे-जूनमा. हि. रि. पृ ४४०-- ४४३ )अत्र सोपपत्तिकं मदीयं भाष्यं विलोक्यम् ।

३३. श्लो. वेबर-बार्हस्पत्यसंशोधितपाठे तिथीनां क्रमभङ्गो व्याकरणाशुद्धिश्च तदर्थं मदीयः पाठो भाष्यं च विलोक्यम् ।

३४.श्लो. अत्र वेबरबार्हस्पत्यादिशोधितपाठो न युक्तस्तत्र त्रुटिश्च विभाति । बार्हस्पत्यव्याख्यानं च न साधु । (द्र. मे., जून. मा.हि.रि.पृ. ४३९-४४०) अतो मद्भाष्यं विलोक्यम् ।

श्रुतिः कामदुघा वेदरूपमार्चंयाजुषम् ।
ज्यौतिषं तत्र चेदर्थान्तरं माधूपपादनैः ॥ १ ॥
अध्याहारवशेन स्यान्मान्यं तदपि विद्वरैः ।
तेन हानिर्न कुत्रापि चेदर्थासङ्गतिर्न हि ॥ २ ॥
अस्तीह याजुषे चार्चे भेदः शब्दस्य कुत्र चित् ।
आश्लेषार्धायनादस्य कालज्ञानं न दुर्लभम् ॥ ३ ॥
मुद्रणे शोधने यत्र कुत्राप्यातुरतावशात् ।
अशुद्धिः शोध्यतां धीरैर्वदतीति सुधाकरः ॥ ४ ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/16&oldid=204407" इत्यस्माद् प्रतिप्राप्तम्