पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/98

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ आनाहाध्यायः ] ।। इस्लयायुर्वेदः । ૮૭ उष्णोदकं च पानार्थ शकृद्यावश्न बंध्यते ॥ एवमप्यस्य निर्दिष्ठं देशकालबलं पति ॥ ९४ ॥ स्वयमप्यत्र भिषजा तक्र्यं बुद्धिमता भुवि । स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥ ९५ ॥ निष्कोशक्षोदनं चास्मै सम्यकुर्याच्चिकित्सकः ॥ वचा हरिद्रा लशुनं पिप्पली मरिचानि च ॥ ९६ ॥ करञ्जबीजं तेजोह्वां शृङ्गवेरं फणिक्षकम् ॥ गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पली ॥ ९७ ॥ तालीसपत्रकं कुष्ठं शतपुष्पा पवानिका ॥ पञ्चभिर्लवणैः सार्धं कवलं तस्य दापयेत् ॥ ९८ ॥ तेनोपरुद्धं धान्यं हि सपुरीषं निस्हति । विपाचय लवणं चास्य गजस्याssरोग्यसंज्ञितम् ॥ ९९ ॥ इमं संभ्रुत्य संभारं मुविभक्तं यथाविधि ।। ‘ं सेन्धवं काचलवणं लवणं रोमकं तथा ॥ १०० ॥ तथेव यावशूकं च सामुद्रलवणं बिडम् ।। * तथैव काचलवणं तथैवोत्पलपत्रकम् ॥ १०१ ॥ मुवाचैकाsपि या मुख्या यवक्षारं तथैव च ॥ तथैव देयाः पिप्पल्याः पाठा कटुकरोहिणी ॥ १०२ ॥ विभीतकहरीतक्यौ शृङ्गबेरं च हिँछुच। सारिवाsतिविषा मुस्ता त्रिफलेन्द्रयवास्तथा ॥ १०२.ll वृक्षाम्लं मरिचं चैव तथाचाँssम्राम्लवेतसी ॥ बालबिल्वं च कुष्ठं च विडङ्गं हस्तिपिप्पली ॥ १०४ ॥ एतत्संहृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् । धिमण्डेन संयोज्य `चूर्तेमेण्डेsपि पाचयेत् ॥ १०५ ॥ अथैनं धिमण्डेन पुनरालोड्य पाययेत् ॥ प्रसन्ना वाऽपि या मुख्या तया वाssलोड्य पाययेत् ॥ ९०६ ॥ तेन कोष्ठगतं भक्तमेकरात्रान्निरुहति ॥ . मतिपानं च सेकश्च क्रमात्सात्म्यं च भोजनम् ॥ १०७ ॥ १ क. बुध्यते ॥ २ क. शतेन यत् ॥ ३ क. हिङ्गुकम् ॥ ४ ख. °चाऽऽम्लाम्छ” । ९ ग. “सौ ॥ बलं बि१ । १ क. “धिमाण्डे” । ७ क, "तमाण्डेन पा९ ॥