पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WS6 पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने असाध्यरूपौ द्वौ स्कन्दी तयोर्यत्नो न विद्यते । अन्तरायाम एकस्तु सोsपि सिध्यति वा न वा ॥ तमप्रपन्नो यज्ञेन चिकित्सितुमुपाचरेत् । पथोक्तैनोपचारेण शास्त्रार्थकुशलो भिषकू । अशनिरिव तन्मिहेन्द्रमुक्तो दहति-तृणानि यथाऽनलः पीतः । द्विरदमपि तथा हिनस्ति रोगो नृपवरं मूर्खभिषकृतपयोगः ॥ इति । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगाधिकारे स्कन्दाध्पायः *एकादृशा: ( दशमः ) ॥ १० ॥ अथैकादशाध्यायः ।। अथ कदाचित्पालकाप्यमागतर्गाभवाद्योपविष्टमुवाचाङ्गराजो रोमपाद:‘पुराणकृश इत्युपदिष्टः संग्रहाध्याये पूर्व भगवता, स कथम्' इति ॥ ततः मोवाच भगवान्पालकाप्यः-पुराणकृशाः, पाण्डुरोगः, इत्यनर्थान्तरम् । ते त्रयस्त्रिभिर्देोषैः संभवन्ति वातपित्तकफैः, तत्र पित्तसंभवमेवाssदी वक्ष्यामः ॥ o, स गर्जो जीर्णाजीर्णविदग्धभोजनादम्ललवणप्रायादाहारादत्युष्णाध्वगमनात्परिश्रान्तनिर्वाणात्सहसा पित्तमुदीर्णं वायुः समन्ताच्छरीरे विधुनोति ॥ ततः स भवति कृशः पाण्डुः, अलस:, नान्नाभिलाषी, ध्यानशील: । ते पुराणकृश इति ब्रूमः पाण्डुरोगम् ॥ तस्य पिंतोडूतस्य शान्त्यै हरिद्राबृहत्यौ मरिचपिप्पलीविडङ्गानि समभागानिं लवणयुतानि चार्धभागानि कृत्वा स(र) डुगोयपेन कवलान्भोजपेद्रजम्। पूतीकरञ्जनक्तमालेन्द्रयबदेवदीरुहर्रातकीप्रियङ्गसमपर्णनम्बमुस्ताशू ङ्गवेरमिति लक्ष्मचूर्णानि कृत्वा गोमूत्रेणं त्रिरात्रपर्युषितं स्थितं पापयेत् । ततस्तं पीत्रैव प्रणुदतिं पित्तसंभवं पुराणङ्कशम् । पिप्पलीपिप्पलीमूलुस्ति, प्लीनिरुद्धचित्रकैः सह् सिद्धं मुद्रपूषं साषैषा घुसंस्कृतं पापपेत् । नैव चैनं भोजपेत्पाण्डुरोगप्रशान्त्यर्थम् ।

  • यूद्यपि त्रिष्वपि पुस्तके ‘ एकादशः ’ इत्येव पाठः, तथाऽपि ‘ दशमः' इत्येव .पाठो युक्तेः शास्रसंग्रहाध्यायेऽस्य दशामत्वेनोपन्यासस्य फलितत्वात् ॥

१ ग. स्कन्दावतर्यामी निगद्यते । ९ क. °जोजीर्ण° ॥ ३ क. संभवति । ४ क. °नेि सल° । ९ क. तेनैव । '