पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/83

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૭૨ पालकाप्यमुनिविरचितो- [१महारोगस्थानेशाकवलीक्षुण्णान्मधुमिश्रान्कबलान्दद्यात् । ( *अथवाsइमन्तकमुष्क)कोढु। म्बरपुक्षाणां त्वचः कल्पयित्वा गोक्षुरकमधुरसाजीवन्तीबिल्वानि कुरुविन्द्वं वा क्षोदयित्वा काथयेत् । तेन काथेन तेलं पक्त्वा नागमनुवासयेत् । अश्वाश्वतर्खरोष्ट्रमहिषाण मांसरसै पानभोजनयुपहरेत्। तेनास्प नश्यतः कफपवनौ । तत्र श्लोकाः-- R इत्येते नृपवरं पाकला दशोक्ता भैषज्यैः सह सनिदानसंभवास्ते । तत्र द्वी परमसुदारुणावसाध्यौ यः शुद्धो भवति हि कूटपाकलश्व ॥ अष्टानामिह हि चिकिसितं मयोक्तै सर्व ते नुपवर मृत्युदण्डकल्पाः । येो देशामकृतिवयःपमाणसात्म्यान्यायुश्च प्रतिगजमीक्ष्य शाश्वचक्षुः ॥ नागानां ज्वरमुपहन्ति पाकलाख्यं कर्मज्ञः स भवति राजहस्तिवैद्यः । एतान्यो भिषगिह साधयेत्स पूज्यो वेदज्ञैरिव हवनेषु वज्रहस्तः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने पाकलाध्यायोऽष्टमः ( नवमः ) समाप्तः॥ ९ ॥ अङ्खराजो महाप्राज्ञः कुबेरसमविक्रमः । हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् । तत्र मे संशयः कश्चित्तं मे शंसितुमर्हसि ॥ २ ॥ शुद्धल्लेष्मसमुत्पन्नः शुद्धपाकलमादितः ॥ प्राग्भागोष्ण: कथं तेन पश्चाद्भवति इतिलः ॥ ३ ॥ ने चोष्णलक्षणस्तेषां हस्तिनां जायते ज्वरः । कथं साध्यश्च बालोऽत्र कूटश्चैव न सिध्यति ॥ ४ ॥ समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तिती ॥ पकलः पुण्डरीकश्च वातृपित्तोद्भवावुभौ ॥ ५ ॥ विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ शनैः क्षीयेत वा केन हेतुनाऽथ मृदुग्रहः ॥ ६ ॥ कथं च भूतसंस्रष्टो दुष्टः कुकुटपाकलः । देवाश्च केचिदिच्छन्ति दोषतश्चापरे जनाः ॥ ७ ॥ % धनुराकारचिह्रान्तर्गतपाठः कपुस्तके नाति । * नवम इत्येव युक्तम् । यद्वाऽयमध्यायसमाप्त्युछेख एव प्रामादेिकः, प्रथमस्थानेऽष्टादशाध्यायप्रतिज्ञाविरोधात् । متسمان – تيسم تصممسدسه مسمه ديمسه १ क. यादृशः प्रकृतिवयोऽप्रमा*।। २ ग. तवोक्तल” ।