पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पाकलाध्यावः ] इस्लायुर्वेदः । ६९ पिप्पलीफणिजकशतपुष्पातगरैलानां सूक्ष्मचूर्णानि कृत्वा तस्मिन्मण्डोदके किण्वेनानेन चूर्णेश्चाऽऽसवं कृत्वा मोसस्थितं पाययेद्दिरम् ि। एतत्पानं पूर्वोक्तेन प्रमाणेन । एवमेतैरुपक्रमविधिविशेषैर्नश्यति पछनपाकल: ॥ तत्र श्लोको कफपित्तसमुत्थस्तु पाकलः पृथिवीपते । तितैः कषायैः कटुकैश्चिकित्सेन्मतिमान्भिषक् । पघुप्तपाकलं वेनं विधिनाऽन्येन पार्थिव । साधयेद्यो भिषक्सम्यक्स पूजामाप्नुयादिति ॥ इति प्रमुप्तपाकल: (लहेतुलक्षणचिकिसितानि । ) अथातः कूटपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माssह ( भगवान्) पालकाप्यः । तत्र गजस्पामीक्ष्णशो रुक्षान्नपवसकवलकुवलतिक्तकटुकषायलघुविषमरुक्षबह्वन्नभोजनात्, अथवाऽतिगुरुभारहरणतरणविलङ्घनांकुप्यत्यनिलः । तदात्मकश्व कूट: । कूटो नामाssथुघातनम् । आथुघातनाद्विरदानाम् । तस्मात्कूटपाकलमित्याचक्ष्महे । तत्संप्रयोगाद्विरदः स्तब्धकरचरणनयनकर्णलाङ्गलः पतत्पशनिहत इव, धरणिर्गतहरिणशिश्रुरिव कूटेनाभिहतो म्रियते । क्षिप्रमेव निपतनाच्चास्य न निदानोपलब्धिः । अथ चेनमेतेषु कॉलेषु भजते । स्तम्भोपाश्रयणं प्रतिपानकाले कल्पनाकल्पनीथी विनपक्रिया, अवगाहस्थानाध्वगमनादिकालेषु । तत्राल्पबुद्धयो द्विरदमवनिपतितमवेक्ष्य मन्यन्ते लक्षणाभावाद्विषपरिगत इति केचित् । ग्रहेणायं गृहीत इत्यपरे मूढा मिथ्याज्ञानात् । सनिदानी हि ती, अयमनिदानश्वाचिकित्स्यश्वेति । तत्र श्लोकः यथा हि हन्यात्कूटे न मृगशावं वनेचरः ॥ तथा वातात्मको नागं हन्ति वै कूटपाकल: ॥ इति कूटपाकल: ( लहेतुलक्षणाचिकित्स्यत्वानि ) ॥ अथातः पुण्डरीकपाकलचिकित्सितं व्याख्यास्यामः, इति ह्म स्माssह भगवान्पालकाप्य: ॥ १ क. °चूर्ण कृ°। २ ख. मांसस्थितं । ३ ख. °गते ह° । ४ क. कपालेषु । १ ग. कल्पनवी° । . . .