पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/76

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पाकलाध्यायः ] इस्त्यायुर्वेदः । ६५ च लक्ष्पते ध्यायति कुप्यति, कुकुठ इव कूजतीति कुकुटपोकिलः । तं वैद्य एतैर्लिङ्गैरुपलभ्य कुकुटपाकलग्रहीतमिति विज्ञाय चिकिसितुयुपक्रमेत यवक्षारसमुद्रलवणबदरबिडङ्गहरिद्रामरिचपिप्पलीः समभागाः संकुठ्य दधिमधुघृतसंयुक्तान्षोडशा कवलान्भोजयेद्यथाग्निवर्ष्म विभज्य बारणम् । अथार्कोरुबूकवत्सकतर्कारीशोभाञ्चनकाढकीन मूलफलपत्राणि संहृत्य मधुरसापाठाचित्रकांशुमतीपृश्निपणींनां च मूलानि कुटजनीपनिर्गुण्डीनां फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारकुलत्थाम्लदधिमस्तुसौर्वारकैः सह संयोज्य भोजनायोपाहरेत्। ("अथवा न्यग्रेोधाढक्युरुबूकपाटलीकर्पासीन मूलफलपत्राणि संहृत्य मधुरसापाठाचित्रकाथुमतीपृक्षिपर्णन च मूलानि कुटजनीपासनशलुकीन फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारैः संयोज्य नाडीस्वेदं कुर्यात् । एतेषां च पत्रभङ्गेन मुखोष्णेन स्वेदयेत्)। कुकुटस्य कृष्णमत्स्यस्य वा रुधिरणार्जेनधूपनम्। पञ्चाङ्गस्य निम्बस्य वा मुखे शिरस शरीरे च कृत्वा नक्तमालफलचेतसर्षपकुलत्थहिङ्ग्वजाजी(व)बबेरतृणाश्वगन्धापूतिगन्धार्केविषाणिकाकीशिकैः सह वानररुधिरैर्धपयेत् । भद्रमुस्ताकाश्मर्यकुस्तुम्बुरी(रु)सुरसपत्रबिडङ्गैस्तैर्ल विपाच्य विधिवदनुवासनं कुर्यात् । सर्पनिमेंौकवानररोमकुकुटमेदोभिरजाघृतसंयुक्तेर्भूपयेत् । काकमाचीपत्रफणिजककाश्मर्यकट्फलचूर्णेश्व नंस्यं प्रधमनं कुर्यात् । अञ्चनं यवक्षारं काककुकुटयो रुधिरेण शिरीषफलैंसंयुक्तैन कुर्यात् । अतसीशीतशिवाकृष्णकन्दाहरितालमनःशिलामुवर्णपुष्पीमहाकन्दासर्जरसै: सुँर्यसंकरणीकैरातमूलनलदवोरकसंयुक्तैः पुराणघृतेन संयोज्य धूपयेत् । आमोक्षाचैनं व्याधिमुष्णेनाम्बुना कम्बलै: प्रतिच्छाद्य विना शिरसा योगत: स्वेदयेत् । बिल्वफलानि सलवणानि निम्बपत्रपरिवेष्टितुं च पिण्याकं भोजनकाले कबलान्दद्यात् । अथवा यवेनालक्षारं सप्तकृत्वः परिस्रुतं सोवीरकं दृधि चेत्येतेषामेकैकस्याssढकमुपकल्प्य संयोज्य पाययेत् । भूयश्च मत्स्यरसं मयूररसं पायपेत् ॥ तत्र श्लोको गजप्राणहरो होष व्याधिः कुकुटपोकल: । अनेन विधिना राजन्यथोतेन प्रशाम्यति ।

  • धनुराकारविहद्वयान्तर्गतपाठो नाति कपुस्तके ।

१ क. “पालकः ।। २क. "ज़नं धू” । ६ क. ख. नश्यं । ४ व्क. "लयु” । क. सूर्यकणर° । ६ क. °वक्षा° । ७ क. ख. °रिश्रुतं । ८ क. °पालकः. ॥

  • -