पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/69

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ংে4 पार्लकाप्यमुनिक्रािचितो- [ १महारोगस्थाने थद्धात्कफात्समुत्पन्न शुद्धपाकलमादितः ॥ प्रत्याचक्षीत मेधावी लिङ्गैरेतैः समन्वितम् । ( इति ) शुद्धपाकल: ( लहेतुलक्षणासाध्यत्वानि ) ॥ अथातो बालपाकलचिकित्सितं व्याख्यास्यामः । इति ह स्याऽऽह मगवान्पालकाप्यः- o स खलु भो क्लक्षलधुशिशिरविशदकटुकषायतिक्तविषमविरुद्धभोजनात्, दुःस्थानशयनात्, रात्रिजागरणात्, अतिगुरुभारहरणात्, व्यायामव्यवायात्, अध्वगमनात्, क्षयात्, मन:संतापात्, ऋतुविपर्यासात्, लङ्घनात्, अतिबन्धनात्, मूत्रपुरीषधारणात्, प्राक्षि च प्रकुप्यति पवनः । स प्रकुपितः करचरणनपनबदनकर्णलाङ्कलकुक्षिपक्षस्कन्धजघनमेहनशिरसामन्यतममासायाङ्गै सर्वाङ्गानि वा गृहीत्वमैविकारानापादयति । तत्र करगते मारुते-नावमृशति नोन्मृशति, न हस्तं संकोचयति, न प्रसारयति, न निर्धमति । चरणगते-युगपदेकैकशो वा गात्राणि परं स्तम्भयति । ( *नयनगते-न संवर्तयति, ) नोन्मीलयति, न संमीलपति, न स्वपिति नेत्राभ्याम् । मुखे गृहीतो-नाति किंचित् । कॅर्णगते-स्तब्धकणे भवति । लाङ्गूलगते-लाङ्गलवंशं स्तम्भर्यान, लोङ्गुलं शूनं च कुरुते । कुक्षिपक्षगतश्व-आध्मानाटोपसंकोचनपक्षघातान्निर्वर्तयति, शूलं कुरुते । स्कन्धगते-न निंर्णमति, नोन्नमति, नावनमति, मन्ये स्तम्भयति । जघनगतेमूत्रपुरीषसङ्गानापादयति । मेहनगते-भेहनं स्तम्भयति, मेहनं च शूनं कुरुते, रक्तमूत्रं वा निवर्तयति । शिरोगते-स्तब्धोन्नतशिरोग्रीवो भवति । पूर्वेभागमाश्रित:-तदाश्रयां क्रियां विरोधयति, मृष्टमपि च न तत्र मर्षपति । सर्वोङ्गगतः-सर्वानेवाङ्खपदेशानन्तर्बहिश्च मस्तभ्प तिष्ठति, ततो गज: मृध्यायति निमीलयति, अश्रूणि प्रवर्तयति, न स्थानस्तम्भरथ्यामु मनो धत्ते कृच्छ्रवातमूत्रपुरीषश्व भवति । भोजनकवलकुवलपल्लवाहारद्वेषी वेदना चास्य मुखदुःखान्वयाद्यामिश्री भवत । रुक्षत्वक्करचरणादिषु प्रकुपितो बालचेष्टव क्रमादभिवर्धते । यावत्सर्वौङ्गगतो भवतीति यस्मात्, तस्मात्-तं बालपाकलमित्याचक्ष्महे । स खल्वेष लिङ्गबाहुल्यात्क्षीणदुर्बलबालकृद्धान कृच्छूप्रतीकेारो भवति । ' * धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ।

  • . १ क. “नादुत्थानाच्छयनात् ।। २ क. °मान्कारा° । ३ क. मुखेन । ४ क. कर्णतेः । ९ क. लॉकूलशूलं । ६ के. निर्णयति । ७ क. शूलं ।। ४ क. °णबा° । ९ खू. °कारतरो । -