पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/67

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने एतद्भवति विज्ञानं ग्रहीते पाकलेन तु ॥ नामभिर्बहुभिस्तैस्तैः सर्वयाणिषु कीर्त्यते ॥ २७ ॥ कारणौ्रभिः प्रोक्तो दन्तिनां पाकलो भवेत् । रुद्रविष्णुमयं तेजो द्वादशादित्यवर्चसम् !l २८ ॥ प्रलयः सर्वभूतानां तस्मान्नित्यं व्यवस्थितः । एषा ज्वरसमुत्पत्तियेथावत्संपकीर्तिता। पृच्छतस्ते महाराज यथावदनुपूर्वशः ॥ २९ ॥ ७०४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहापाठे महारोगस्थाने ज्वरोत्पत्तिनामाष्ठमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः ।। अङ्गराज्ञो महाप्राज्ञेनेयकारैर्महात्मभिः ॥ सहोपवेिष्ठं शालायां पालकाप्यं स्म पृच्छति ।। १ ।। पोकला *येऽन्वये ब्रह्मंस्त्वयोक्तास्तान्प्रचक्ष्व मे ॥ एवं पृष्ठोsङ्गराजेन पालकापूयस्ततोऽब्रवीत् ॥ २ ॥ पौकलाञ्शृणु मे राजन्सनिरुक्तान्ससंभवान् ॥ रुद्रस्य क्रोधजो ह्येष ( नॆामभिर्बहुभिज्र्वरः ॥ ३ ॥ अन्तकः सर्वभूतानां क्षयं नयति दारुणः । अनाविधेन तेनेह कश्वित्प्राणैर्विमुच्यते ॥ ४ ॥ अन्तकाले विशत्येष) जङ्गमाजङ्गर्म जगत् । ततः-एष एक एव खलु भो $वरो नरेषु ह्येष्वभितापः, खरेषु खोरकः, गोष्वीश्वरः, उष्ट्रेष्वलसक:, व्याडेष्वाक्षिकः, मलापकोऽजादिषु, सरमुिपेषु कंष्णीष, हाद्रिको महिषेषु, मृगरोगो मृगेषु, पक्षिष्बवतापः पतङ्गेपु थुनस्त्वेलकै:, मस्त्येष्विन्द्रमदः; गुल्मेषु गुच्छक:, ओषधिवनस्पतिषु ज्योतिष्क:, माँल्येषु पर्वकः, ऋषभको नलिनीषु, धान्येषु चूर्णकः, लल: कोद्रवेषु, मधूकः शाकेषु, भूम्यामूषरः, अप्छु नीलिका, गजेषु पाकळ: । r * ‘संग्रहाध्याये' इत्यर्थः प्रतिभाति । f धनुराकारचिह्नमध्यगतपाठः कपुस्तके नति। ? क, ख. पालकाप्यन्वयो ब्र'। २ क. ख. पालकाञ्शू'। ६ क.°प्वसलक:। ग. १ष्वलकसः ।। ४ क. ग. कुष्णोषः ।। ९ क. *स्त्वलकः ।। १ क. साल्येषु ।