पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शिष्योपनयनाध्यायः ] । इस्लयायुर्वेक्षः । । e

  • अमुष्याणा(?)मेवचनां देहीत्यवदतामपि ॥

कर्तव्यस्ते सदा स्नेहः कुञ्जराणां विशेषतः ॥ १८ ॥ यः सम्यक्पश्यतो राज्ञः स्वामिनां चारुहृत्तिभिः ॥ उपेक्षति गजान्वॆद्यः स त्वज्ञः पापमश्नुते ॥ १९ ॥ एतदेव विपर्यस्ता यदि राजा न पश्यति ॥ सम्यक्प्रवृत्तमाचार्य दानमानपरिग्रहैः ॥ २० ॥ पिण्डस्तु नोपजीव्यस्ते वारणानां कदाचन ॥ अवध्यायन्ति ते नागा यः पिण्डमुपजीव्यति ॥ २१ ॥ यथैव नागाः क्षीयन्ते नागवत्क्षीयते हि सः ॥ गजशापाभिभूतस्य नश्यन्ते संचया गृहे ॥ २२ ॥ तस्मात्सदाऽनुकम्पैव कर्तव्या वारणेष्विह ॥ क्षुत्क्षान्तदीनमीतानां मत्तानां युधि रक्षणम् ॥ २३ ॥ विधेयं ब्रह्मणा सृष्टा नागानां हितमिच्छता ॥ मङ्गल्पा च पवित्रा च धर्मार्थेयशसां निधिः ॥ २४ ॥ गान्धर्वः सामवेदस्प उपवेदो यथा स्मृतः ॥ • स्मृतिर्यथा चोपवेद ऋग्वेदस्येह पठ्यते ॥ २५ ॥ नाट्यं यथोपवेदश्च यजुर्वेद्स्य पार्थिव ॥ तथोपवेदोऽथर्वाणचिकित्सितमिह स्मृतम् ॥ २६ ॥ ब्राह्मणस्त्वथ वर्णादींस्रीनध्यापयितुमर्हसि* ॥ द्वौ क्षत्रियस्तथा *वैश्यमेकमध्यापयेत्सदा ॥ २७ ॥ गुणवत्स्वपि शूद्रेषु मा बुधं कर्तुमर्हसि ॥ एषा ह्यनुपमा विद्या वेदवेदाङ्गसंमिता ॥ २८ ॥ विद्यानामुपसत्त्वाय कथपेन्न ह्यसाधवे ॥ 'अश्रद्दधानो ये च स्युर्नास्तिका येऽभ्यसूयकाः ॥ २९ l तेषां विद्यां न कथयेचे च विद्यावमानिनः ॥ आचार्येस्त्वेव कथयेद्विज्ञानकुशलेष्वपि ॥ १०‘॥ नापुत्राय प्रदातव्या नाशिष्यायाहिताय वा ॥ अश्वान्गां रजतं चैव स्वर्णं वाऽपि दक्षिणाम् ॥ ३१ ॥ * ‘अमुख्यानाम्’ इति भवेत् ।। f 'वर्णास्त्रीन्’ इति तूचितम् । + ‘मर्हति' इति समञ्जसम् ।। * वैश्य एक इति तूचितम् । f अश्रद्दधाना इति तु वरम् । १ ख. °मवाचानां ।२ ख. क्षुच्छ्रान्तदान° । ३ क. विद्या ।