पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/43

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने पाण्डुरोगास्त्रयो ज्ञेयाः पुराणकृशासंज्ञिताः ॥ वांतिकाः पैत्तिकाश्चैव श्लेष्मिकाश्चैव संरूपया ॥ १५ ॥ पर्श्वानाहास्ततो ज्ञेयास्त एव भेदसंख्यया ॥ अत्याशिातोऽथ प्रथमस्त्वेक एव विनिश्चितः ॥ १६ ॥ त्रिविधं तु विजानीयाद्वातोन्मथितसंज्ञितम् । वातोपरुद्ध एवात्र ज्ञेय: संसक्त एव च ॥ १७ ॥ असंसक्तश्च वेिज्ञेयस्त्रयत्रिविधलक्षणाः । धान्यप्रदुष्टं जानीयाद्विविधं परिसंख्यया ॥ मदुष्टं चापदुष्टं च जानीयात्तं नराधिप ॥ १८ ॥ ततः स्यान्मृत्तिकाजग्धः सांनिपातिक एव च ॥ ईत्यानाहाः समुद्दिष्टाः शृणु मूर्छास्ततः परम् ॥ १९ ॥ अत्यर्थभोजनान्मूछा विदग्धाचैव भोजनात् ॥ धान्यमूर्छा ततो ज्ञेया स्नेहमूछं ततः परम् ॥ २० ॥ वातात्पित्तात्कफाचैव संनिपातात्तथैव च ॥ उदकान्मार्गमूछ च मद्यमूछ च कीर्तिता ॥ २१ ॥ यवसाद्वाऽपि विज्ञेया मूछा र्सा द्वादशी भवेत् ॥ इत्येता द्वादश प्रोक्ता मूर्छाः पार्थिवसत्तम ॥ २२ ॥ शिरोरोगास्त्वतस्त्वन्ये सप्तैव परिसंख्यया ॥ वातिकाः पैत्तिकाश्चैव श्लेष्मिकाः सांनिपातिकाः ॥ २३ ॥ 'ं शोणिताज्जायते चान्यः कृमिजस्त्वभिघातजः । पारोिगास्ततो ज्ञेयात्रिंशत्तु परिसंख्यया ॥ २४ ॥ उत्कारकी ततः पूर्वं कारकी तदनन्तरम् । नाडीजातस्तृतीयः स्यात्ततः संराष्ट्र एव च ॥ २५ ॥ नखभेदं ततो विद्यात्पूपकेशं ततः परम् ॥ विघुविकस्ततस्त्वन्यः केशग्रन्थिः सविप्लुतः ॥ २६ ॥ समन्तकेशश्च भवेत्कचकेशश्व कीत्र्यते ॥ .कदम्बपुष्पो विज्ञेयः सपुल्लोऽथ कुठारकः ॥ २७ ॥ १ ख. वातिकः पैतिकश्चैव लेष्मिकश्चैव संख्यया ।। २ क. °ञ्चानां हस्त° । ३ क. इत्याहाराः । ४ ख. विन्द्यात्पू” ।