पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाध्यमुनिविरचितो- [.१ महारोगस्थाने केवलैः पश्चदृशा च वने मरणहेतवः ॥ ये मया बहुशो दृष्टाश्चरता सह हस्तिभिः ॥ १० ।। गजानां विविधैर्द्रव्पेर्ये चाप्यागन्तवो व्रणाः ॥ न भवन्ति वने सौरूयात्कामतश्छन्वतः सदा ॥ १५ ॥ तत्र शृणु महाराज हेतून्मृत्युषु-हस्तिनाम् । पर्वतात्पतनं पङ्को विषवल्ठी जराऽनलः ॥ १२ ॥ कूपः प्रतिगजो ग्राहो विडुद्धब्धो भुजंगमः ॥ अलढुमस्तथा व्याडो बाल्पे मातुर्विवर्जनम् ॥ १३ ॥ दशभिः पञ्चभिश्चैव हेतुभिर्वोरणा वने ॥ म्रियन्ते न हेि नागानां त्रिस्थूणाज्जायते त्रयम् ॥ १४ ॥ अङ्गराजस्ततो भूयः पालकाप्यं तु विस्मितः । वचनं प्रत्युवाचेदं शिष्यभावादृशाङ्कितः ॥ १९ ॥ भगवान्क वनस्थानां न सन्ति पवनादयः । नागानां त्रिविधा दोषा न चेते समं धातवः ॥ १६ ॥ ततः भोवाच भगवानुत्तरं विदितोत्तरः ॥ पालकाप्यस्ततो दृष्ट्वा सहवासं च हस्तिनाम् ॥ १७ ।। सात्म्यं नाम महाराज यथैवाऽऽत्मा तथा स्मृवम् । तत्तेऽहं संपवक्ष्यामि सह तेरात्मनो गुणैः ॥ १८ ॥ तत्तु जन्मसमाचारैः पहृष्टेन्द्रियमॆानसेः ॥ .न दूषयति वातादीन्दोषान्सततसेवया ।। १९ ।। .ते चादुष्टा न रोगाय भवन्ति वनहस्तिनाम् ॥ आहारांचारयोगो हि सात्मीभूतो गुणावहः ॥ २० ॥ तत्राऽऽहारात्मकं सात्म्यं दृक्षभङ्गास्तृणानि च ॥ त्वग्मूलं पादपानां च बाल्यै मानुः पपो जलम् ॥ २१ ॥ एतक्ाहारजं सात्म्यं मोच्यते वनहस्तिनाम् । जलपांशुप्रमाथीनां शयनस्थानकर्मणाम् ॥ २२ ॥ विहाराहारचेष्टानां स्ववशेनोपसेविनाम् ॥ .एतद्ाँवारजं सात्म्यं प्रोच्यते वनह्नस्तिनाम् ॥ २३ ॥ श्रुत्वा चेदं ततो वाक्यं पुनः प्रोवाच पार्थिवः । यद्येते तृणमात्रेण भगवन्छुखिनो गजाः ॥ २४ ॥ السـ १ क, °रान्नोरं° । २ ख, ग. °दाहार” ।