पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/334

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ अतेियाताध्यायः ] इस्लयायुर्वेद tः १२* जघनभ्रंशानं वापि श्नंशानं च तथोरसः । भञ्जनं गात्र“ “ ”” रोगं चापि बलक्षयम् । अत्यर्थ कर्मयोगेन शोषं वा घोरमृच्छति । क्लाम्यमानस्तु दॊर्बख्यं कर्मातिनयनोद्भवात् ॥ आहारैः पेशलैश्चापि न वृद्धिमुपगच्छति । कर्मातिनीतो मातङ्गस्त्वतियातो निरुच्यते । दारुणेभ्यो लघुभ्यश्च कर्मेभ्यस्तं निवर्तयेत् । करेणुसहितं चैनं यथाकालं विचारयेत् ॥ रम्येषु वनखण्डेषु पुष्पाढ्येषु सुगन्धिषु । फुद्धपुष्करंषण्डेषु जलेषु च विगाह्रयेत् । वृक्षेभ्यश्च लताः पुरुछ्ाः मुगन्धाः षट्पदाकुलाः । व्यपकृष्य सुमार्गेण भक्षयन्तं विचारयेत् । चन्दनस्पर्शशीतं वा कर्दमं हारयेद्गजम् । . पांशूंश्चाऽऽहारयेदेनं कूलेष्वपि मृजेदपि ॥ यवसानि विचित्राणि हरितानि मुदूनि च । विशालानि मृणालानि पद्धवानि मृदूनि च ॥ इक्षूनपि च शालींश्च कवलानि षदापयेत् । मनःप्रसादश्च तथा बळं चैवोपजायते ॥ ततः संजातमांसाय वारणाय महीपते । प्रसन्नां प्रतिपानार्थ गुडयुक्तां प्रदापयेत् ॥ भ्रष्टैरष्टाभिरथवा प्रसन्नां लवणैर्युतम् । ततोऽस्मै षष्ठिकानां च शालीनॆां चाssध्रुसंस्कृतम् । ओदनं दापयेद्वैद्यः शर्कराघृतसंयुतम् । बृंहणीयानि हृक्षाणि मांसान्यस्मै ततः परम् ॥ वेसवारं रसं वाऽपि कारयित्वा प्रदापयेत् । मांसैः क्षीरैस्तथा स्नेहैर्विचित्रैर्यवसैरपि ॥ बस्तिभिर्वृहणीयैश्च शीतेन विविधैरपि । अतियातस्य नागस्य बळं शीघ्रं प्रवर्तते । १ क, ख. °तोऽतिरु° । २ क. ख. °रखण्डे° ॥ ३ ख. °तान् । त* ॥ ४ ख, °नां वा मृसं° । -