पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/333

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ पालकाप्यसुनिक्रिचितो- [ २ क्षुद्ररोगस्थाने क्षौद्रेण युतं द्विरदाय पानमानाहगुरुमापहरं प्रदिष्टम् ॥ी द्रोणीकशोफं कृमिकोष्ठकासमसंशयं हन्ति च बारणानाम् । पटोलपत्रैः सह निम्बपत्रै: ध्रुद्धेषु शुद्धं प्रपिबेश्च यूषम् ॥ शाल्योदनं चापि मृदु:(ढुं) मुसिद्धं दद्याद्यथोक्तं यदसं विचित्रम् । तत्र श्लोकः-- 够 द्रोणीको यदि भवति द्विपस्य भिन्नः स क्षिप्रं प्रणुदति जीवितं विद्धिः । एतं यः शमयति वारणस्य वैद्यः स प्राप्यो भवति परां ब्रूपेण पूजाम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने द्रोणीकशोफो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ अथ सप्तषष्टितमोऽध्यायः ।। अतियातो गजो राजन्यथा भवति तच्छृणु । अयोगेनानभिज्ञेन येो गजो वाहितो भ्र३ा: ॥ ( fस्नेहेर्विधाभिर्यवसैस्तथैव सरसार्जुनैः । पोष्यते यस्तु मातङ्गो योज्यते न च कर्मणा ॥ लभते चाग्निदौबैल्यमानाहे चैव वारणः ॥ ) तृष्णामथ च वैवर्ण्यं शारदत्वं तथैव च । स यदाऽल्पसुतो नागो युक्तः कर्मवेिशारदॆ: ॥ अकर्मगे(?) प्रयुज्येत गजः संयानकर्मणि । वातास्तथाऽपि च“ “ “ “ “ “ “ ॥ हस्तियुद्धेऽपि चात्यर्थमथ सांग्रामिकेऽपि वा । त्वरया कर्मलोभाद्वा प्रयोगस्यातिमात्रया । बलाबलमविज्ञाय योक्ता नागं प्रपीडयेत् । अत्यर्थं कर्मयोगेन तदा गात्राणि मारुतः । पित्तेन संहितस्तस्य व्यापादयति हस्तिनः ॥ प्रत्यङ्गं सौप्रतीकाशी (?) प्रेोहापस्कारमेव च । **** ** * 9 фева вафф सकुटिके” “”, “ Il " ‘धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥ १ क. योगङ्गो वा° । २ क, °ल्पक्षुतो । ख, °ल्पक्षुतौ मा° । ३ स, नाङ्ग ।