पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/329

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* * & पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने स्नेहपानं च नागस्य गात्राम्पङ्ग च दापयेत् । औदृकानां च सत्त्वानां रसैस्तं प्रति भोजपेत् ॥ ) अशान्तौ सर्वथा शोफे क्षिप्रं रतं प्रमोक्षपेत् । निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रतिचूर्णयेत् ॥ गृहधूमहरिद्राम्यां साडुशं सैन्धवेन च । इत्येष वातिक: प्रोक्तो वक्ष्पते पित्तसंभवः ॥ अम्लोषणभोजनान्नित्यं कटुकात्पशनादपि । लवणस्यातियोगाच पित्तवातं प्रकुप्यति ॥ उरोद्रोणीं समाश्रित्य श्वयथुस्तस्प जायते । श्वयथुस्तस्य पीताभो रक्ताभश्चापि लक्ष्यते ॥ पित्ताद्दाहस्तु नागस्प क्षिप्रं पाकं च गच्छति । हस्तिकर्णपलाशानि श्लक्ष्णरृणीनि कारयेत् । सर्पिषा सह संयोज्य प्रदेहँ तस्य कारपेत् । ३यामामंथुमतीं चैव एरण्डं लथुनानि च ॥ दद्यात्प्रपौण्डरीकं च विषामतिविषां तथा । मकरस्य च मांसानि गोमांसं चैव पोचयेत् ॥ दावप्रिलेपं विज्ञाय ततस्तमवतारयेत् । तेन प्रदेहं नागस्य बहलं तस्य दापयेत् ॥ समूलमिह संहृत्य धत्तूरं सारिवां तथा । पयसा सह पिष्ठानि पशॆहः सघृतो भवेत् ॥ अतिप्रवृद्धे श्वयर्थी प्रच्छन्ने तस्य कारयेत् | निर्दोषं शोणितं दृष्ट्वा कषायैः प्रति चूर्णयेत् ॥ अश्वत्थस्य कषायेण सर्जेस्य ककुभस्य च । हरिद्राग्ाहघूमाभ्यां लध्रुने: सेन्धवेन च ॥ इत्येष पित्तजः मोक्ो वक्ष्यते कफसंभवः । नागस्याल्पप्रचाराच वसन्ते संचितः कफः ॥ उदरे श्वयथुस्तस्य जायते श्लेष्मसंभवः । द्वारुणः कठिनश्चैव इीतो वै मन्दवेदिनः ॥ एतद्वै तस्य विज्ञानं व्याख्यास्यामश्विकित्सितम् । गोमपं वेणुपत्राणि स्वेदार्थ पाचयेद्विषक् ॥ १ ख. पाययेन् ।