पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/327

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*** पालकाप्ययुनिक्रिचितो- [२ क्षुद्ररोगत्थानेर उष्णालुवीतशीलश्व दुर्मना गुरुमस्तकः । भक्तद्वेषं च तं रोगं विद्याच्छ्रेषमोपसर्जनात् ॥ विज्ञानमेतद्याख्यातं चिकित्सितमतः शृणु । द्वे पञ्चमूले संदृत्य पिप्पलीमूलमेव च ॥ हस्तिपिप्पली(लों) च चिरबिल्वैः सह विपाचयेत् । विपक्कमनुपूर्वेण मुखोष्णमनुपाययेत् ॥ एतत्पीत्वा तु राजेन्द्र ततः संपद्यते मुखी । पिप्पलीं शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् । इस्तिमूत्रेण संयोज्य तैलेन च नराधिप । सपञ्चलवणां शुण्ठीं पिप्पलीमूलसंयुताम् ॥ ग्रहणींदीपनं देयमेतत्पानमनेकपे ! नागपिप्पलिमाहृत्य हस्तिमूत्रेण पेषयेत् । एवं प्रतिनये दद्यात्केवलं युक्तितो भिषक् । दीप्यते ग्रहणी तेन यवसं वाsभिनन्दति ॥ हृष्टपुष्टमनाश्चैव न भवत्येव वारणः । यवसान्युष्णवीर्याणि कफम्नानि च दापयेत् ॥ अप्रेवेंवर्धमानस्य पानं भोजनमिष्यते । यथा हि मथनादग्निः स्वल्पोऽरणिसमुत्थितः ॥ पूर्वं गोमपचूर्णेन ततस्तृणेन वै ऋप । क्रमशस्तनुभिः काष्ठे: स्थूळेश्च तदनन्तरम् । विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्पपि । एवं गजानां विधिवच्छनेरग्निरुदीरितः ।। भुक्त सर्वमशेषेण दहत्यग्निरिवेन्धनम् । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने भक्तग्रासोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः ॥ ६९ ।। अथ षट्षष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पाप पालकाप्पं स्म पृच्छति । द्रोणीक इति यः पूर्व संग्रहे समुदाहृतः ॥ १ क. °ष्णानुर्वीनुशी° । २ क. °लीमरिचबि° । ३ क. °पाचये° ॥ ५ ख पौषयेत् ॥ १ क. ख. हिमवना° ।