पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/325

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቆዩ? पालकाप्ययुनिरिचितो- [२ क्षुद्ररोगस्थाने यश्चभिलेवणैः सार्धे क्षोयित्वा हुदूलले ॥ सक्तुभिः सह संपोज्य कवलान्यवि भोजयेत् ॥ कटुका रोहिणी पाठा 'सयवा(?)क्षारसैन्धवाः ॥ पिप्पल्यः कटुका मत्स्या मरिचान्याटरूषकम् ॥ सर्वाणि समभागानि क्षेोद्रयित्वा उदूखले ॥ गोमयेन समायुक्तान्कवलांस्तस्य विापयेत् ॥ मुद्रयूषौदनं चास्मै दद्यात्रिकटुना युतम् ॥ यथां हेि मथनाग्निः स्वल्पोsरणिसमन्वितः ॥ पूर्वे गोमयेंचूर्णेन ततस्तृणेन वै नृप । क्रमशास्तनुभिः काष्ठैः स्थूलैश्च तदनन्तरम् ॥ विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि ॥ एवं गजानां विधिवच्छनैरग्निरुदीरितः ।। भुक्त सर्वमशेषेण दहत्पग्निरिवेन्धनम् । भक्तच्छन्दो भवत्येवमग्निंीनश्च जायते ॥ इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्था नेsभक्तच्छन्दी नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ अथ पश्चषष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । भक्तग्रासोपरुद्धस्य लक्षणं ब्रूहि तत्त्वतः ॥ रसं च शोणितं चैव मेदो माँसमथापि वा । सह घोनसने(?)कस्मात्सर्वाण्येतानि खादयेत् ॥ विशेषयति दोषी च कथं मात्राणि खादति । एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अनादिमध्यनिधन: कायाग्नि: परिमध्यते (?) । मळूलक्षणसंयुक्तो बीजसहितमातेन (?) । नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम् । सोममण्डलमध्यस्थं विद्यात्स्रुपेस्प मण्डलम् ॥

  • ‘सयवक्षार' इति स्यात्॥

१ क. °थाऽङ्गिमदना° । २ क. °यपूर्णेन ततस्तेन तृणे° ।