पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/323

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने अङ्कल्या साऽल्पकाष्ठेन कवलेन च घर्षति ॥ पूषं स्रवति कर्णाभ्याँ दुर्गन्धिः फेनिलं भ्रुश्ाम् ॥ श्लेष्ममारुतसंसर्गात्कृमयः संभवन्ति हि । रुधिरं कृमिसंमृष्ठं दृश्यते यस्य हस्तिनः । कर्णरोगः स विज्ञेयः कएशिोणितवातजः ॥ इत्येवं कर्णयोव्याधीन्दृष्ट्वा भैषज्यमात्रेत् || शृङ्गवेरं च भार्गीं च विडङ्गानि च पेषयेत् ॥ देवदारु च कुंष्ठं च सूक्ष्मं पिष्ठा विचक्षणः । रसेनानेन नागस्य कर्णयोश्व निषेचयेत् ॥ ततोऽस्य वेदनाशान्तिरेतन्न स्यान्महीपते । काली मधुकनिर्गुण्डी हरिद्रे देवदारु च ॥ सर्वमेतद्विडङ्गैस्तु कुछेन च समं भवेत् । एतत्संभारमग्नौ च सूक्ष्मकल्कं प्रदापयेत् ॥ ततो रसं परिस्राव्य क्षेोद्रेण सह संयुतम् । ततोऽस्य कर्णयोर्दद्यात्कर्णरोगात्प्रमुच्यते ॥ मधुशिगुं च बिल्वं च सरलैं देवदारु च ॥ अङ्गीठफलसारं च मांसी कुष्ठमर्वेल्गुजम् ॥ मयूरपित्तं मज्जां च बिल्वानि वर्तुलानि च ॥ विडङ्गतुम्बीबीजं च तथा निम्बफलानि च । देवदारु तथोशीरं पिष्ठा तानि समानि च ॥ सर्वमेतत्समालोड्य तैले धीरो विपाचयेत् ॥ ततोऽस्य सेचयेत्कर्णावेतेन लभते सुखम् ॥ गण्डीरमूलं समधुयष्टिकं च सकुड्डयम् । क्षौद्रेण सह संयोज्य कर्णयोः पूरणं हितम्॥ प्रपौण्डरीकं मञ्जिष्ठां कुष्ठं मधुकूमेव च । उशीरं पद्मकं चैव देवदारु च पेषयेत् ॥ कल्केनैतेन संयुतं तैलं धीरो विपाचयेत् ॥ ततोऽस्य कर्णयोर्दद्यान्नस्यकर्म च कारयेत् ॥ शैलेयं सर्जकरसं देवदारुं तथाऽगुरुम् ॥ SAASAASAASAASAASAASAAAS १ क. °र्णशो व्याधी° । २ ख. पीपयेत् ।। ३ क. कार्छ ।४ क.ख. °वल्यज° । १ क. °स्य कर्णयोः सेकस्तेन वै लभते सुखम् ।। ६ ख. पीषयेत् ।