पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/320

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ प्रमिजाध्यायः ] । इस्ल्वायुर्वेदः । , , । ३०९ प्रत्यूषकाले मातङ्गं ह्रदे निर्वापयेद्विषक् । शालायां मण्डलिप्तायां इीतस्थानासितस्य तु ॥ स्रावयेद्वारिपूर्णाश्च तस्योपरि नवान्घटान् । बिशं मृणालाञ्शालूकमुत्पलं नलिन्ान्यपि ॥ इक्षु चेश्वरसं चैव शृङ्गाटकृकसेरुकम् । दापयेत्कवलांस्तस्मै शर्कराचूर्णसंयुतान् ॥ परुषकाणि मृद्वीका शर्कराफाणितं मधु । सारिवा मधुकं चैव समांश्ां चोत्तरोदकम् । तेतः” “ये प्रति ये(?) शीतं कल्पश्रुत्पापयेत्(?) । प्रभेदे पैत्तिके तस्य यवसानि प्रदापयेत् ॥ ऋणाख्यं पर्पटीन्दद्याच्छर्कराघृतसंयुतम् । षष्टिकानां पुराणानां शालीनामोदनं मृदु ॥ सर्पिषा भोजयेन्नागमेवं भेदाद्विमुच्यते । अम्लमुष्णं च तीक्ष्णं च लवणं च न दापयेत् ॥ पानानि सर्पिषा श्रेष्ठान्यभ्यहूँ चैव सर्पिषा । नश्यत्यनेन योगेन प्रभेद: पैत्तिको नृप ॥ इति पित्तात्प्रभिन्नस्य चिकित्सा संप्रकीर्तिता । (*अथ श्लेष्मप्रभिन्नस्य चिकित्सां संप्रयोजपेत् ॥ ) कटुकेन तु तैलेन सर्वसेको विधीयते । तीक्ष्णान्कटुकषायान्कवलानस्य दापयेत् । अजामूत्रेण संयोज्य श्ळैष्मिकस्तेन शाम्पति । द्राक्षाद्दरिद्रामश्निष्ठाः सूक्ष्मचूर्णांश्च कारयेत् । अजामूत्रेण संयोज्य पिण्ङमस्मै प्रदापयेत् । अनेन क्रमयोगेन(णू) प्रभेदात्परिमुच्यते । आरग्वधं सोमवल्कं पटोलं काकतिन्दुकम् ॥ पयोsपि मधुसंयुक्तं पिण्डः श्लेष्महरः स्मृतः । यवौदनं च तैलेन मात्रया भोजयेद्गजम् ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. "लायामञ्जलिप्रायां । २ क. ततः प्रति ये शीतं कल्पयेत् ॥ ३ ख. °टाद्दद्या° l