पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/296

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ मृतिकाध्यायः] इस्स्यायुर्वेदः । । *éa विडङ्गानि त्रिकटुकां पश्चैव छवणानि च ॥ मर्दैितं गोमयेनाथ पिण्डमस्मै प्रदापयेत् ॥ ७६ ॥ एतेन मृत्तिकां झबां सपुरीषां निरूहति ॥ यद्येतेन प्रयोगेण विशेषो नोपलभ्थते ॥ ७७ ॥ अथान्यदस्मै दातव्यं मृत्तिकाया निरुहणे ॥ पाठामतिविषां हूिँ वचां तेजस्विनीमपि ॥ ७८ ॥ रोहिणीं कटुकां मुस्तां फणिजकफलानि च ॥ इन्द्रदारु पयस्यां च द्वे हरिद्रे तथैव च ॥ ७९ ॥ पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ शङ्खिनीं तृतिां वेव विडङ्गान्मरिचानि च ॥ ८० ॥ पञ्चभिर्लवणेः सार्ध क्षोदयित्वा ह्युदूवले ॥ गोमयेनाथ संमृद्य पिण्डमस्मै प्रदापयेत् ॥ ८१ ॥ एतेन मृत्तिकां सनां सपुरीषां निघ्हति । आनाहे च यथायोक्तं बस्तिमस्मै प्रदापयेत् ॥ ८२ ॥ आनद्धं बद्धचिद्वं च कृमिकोष्ठं तथैव च ॥ उपक्रमे निस्हैस्तानवसन्नमृदुस्तये(?) ॥ ८३ ॥ बळिसिद्धी यथाप्रोक्तं निरूहं द्वापयेद्भिषक् । उपक्रमे तथा नागं शान्नमाश्रित्य बुद्धिमान् ॥ ८४ ॥ श्रुद्धकोष्ठं विदित्वाऽथ बद्धलिण्डं च वारणम् ॥ ग्रहृणीदीपनाथांय वातपश्ामनाय च ॥ ८५ ॥ पञ्चभिर्लवणैः सार्धं पिप्पळै मरिचानि च ॥ मैरेयं वा प्रसन्नां वा प्रतिपानं प्रदापयेत् ॥ ८६ ॥ भक्तार्धमेवानुगजं मुद्गयूषेण भोजयेत् ॥ ततः कुलत्थयूषेण,भागोनं तु प्रदापयेत् ॥ ८७ ॥ समस्तभक्तं च ततो भोजयेद्रसभोजनम् ॥ इत्येवं मृत्तिकाध्यायः पृच्छतेsङ्गाय कीर्तितम्(ः) । पालकाप्येन ऋषिणा वारणानां हितैषिणा ॥ ८८ ॥ इति श्रीपालकाप्ये गजापुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोमस्थाने मृत्तिका नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥