पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/295

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८g पालकांप्यमुनिविरचितो- [ १ কীট ततस्तं वारिणा कूपं सुखोष्णेनावपूरयेत् ॥ तस्मिन्कूपे ततः सम्यङ्नागं तमवगाहयेत् ॥ ६९ ॥ निवातायाँ व शालायां धूपयेदीषुधैस्ततः ॥ हिङ्गुसर्जरसोशीरैः सर्वगन्धैश्व तेन च ॥ ६३ ॥ धूपेनानेन नागस्य बायुः शाम्यति कोष्ठजः ॥ अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे ॥ ६४ ॥ पिप्पलीपिप्पलीमूले चित्रकं हस्तिपिप्पलीम् ॥ बचामतिवेिषां यासं तथा कटुकरोहिणीम् ॥ ६५ ॥ हरिद्रे द्वे विडङ्गानि मरिचानि महौषधः(म्) ॥ एलां मधुरसां वेव तथा तेजस्विनीमपि ॥ ६६ ॥ देवदारुं तथा हिङ्गं त्रिहृतां गौरसर्षपम् ॥ त्रिफलां चाजमोद च तथैवेन्द्रपवानपि ॥ ६७ ॥ लवणैः पञ्चभिर्युक्तं क्षोदयित्वा हुदूखले'॥ गोमपेन च मृद्गीतां पिण्डं नागाय दापयेत् ॥ ६८ ॥ एतेन मृत्तिकां सन्नां सपुरीषां निष्हति ॥ (' पद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ ६९ ॥ अथान्यदस्मै दातव्यं मृत्तिकापा निष्हणम् ॥ दृन्ती कटुकतुम्बी च पान””क्षजीरकम् ॥ ७० ॥ शिरीषपत्रं लथुनं सर्षपमक्षीपीहकम् (?) ॥ गोमयेनाथ मृदितं पिण्डमस्मै प्रदापयेत् ॥ ७१ ।। एतेन मृत्तिकां सन्नां सपुरीषां निरुहति । ) वातोकानि विडङ्गानि फलमारग्वधस्य च ॥ ७२ ॥ स्रुझाः पत्रं च मूलं च हरीतक्याः फलानि च । इयामां च शृङ्गवेरं च गेण्डीरं चाssटरूषकम् ॥ ७३ ॥ उदूलले क्षोदयित्वा पञ्चभिर्लवणैः सह ॥ पिण्डं शद्ापयेद्वेद्यो गोमयेनेव मर्दितम् ॥ ७४ ॥ पद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ अथास्मै कबलान्दद्यान्मृत्तिकाया निरूहणे ॥ ७५ ॥ ? धनुराकारमध्यस्थी नाति पाठः कपुस्तके । १ कि. मण्ड्री ।