पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/292

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ন্মিলন ] इस्लयायुर्वेद: t २८१ रूक्षैः कषायैः कटुकैस्तृणहुमसमुद्भवैः । । रसैर्नानाविधैनौगाः पुष्यन्ति सततं वने ॥ ९० ॥ तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत् ॥ ज्ञेरयन्ति महीं भुक्त्वा वारणा भ्रश्ादारुणम् ॥ २१ ॥ इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः । इत्यन्येsपि तु दृश्यन्ते हेतवो मनुजाधिप ॥ २२ ॥ वन्या येन क्षिातं भुक्त्वा न भवन्ति विकारिणः ॥ बळं नास्तिं सर्वगात्रः प्रहृष्ठेन्द्रियमानसः ।। २३ ।। यदा संयुज्यते नागो मुदितो जातकामया ॥ संमयोगगतं तत्र गर्भं गृह्णाति धेनुका ॥ २४ ॥ तस्यां संजातगर्भायाँ दौहुँदं नाम जायते ॥ स द्वितीये तृतीये वा मासे संजायते भृशम् ॥ २५ ॥ तेन चाssती गजवशा मृत्तिकामुपसेवते ॥ तस्या हृदयसंबद्धा नाभ्यां नाडी प्रतिष्ठिता ॥ २६ ॥ सिरा रसवहा राजन्स गर्भः पुष्यते यया ॥ प्रसूते धेनुका काले हस्तिनों पदि वा गजम् ॥ २७ ॥ मातुर्दैौर्हृदजातं तु मृदंशमनुवर्तते । स पयोमृत्तिकाहारो मृदुपल्लवभोजनम् ॥ २८ ॥ वने चरति संहृष्टः समाः पञ्च मतङ्गजः । स गज्ञः पञ्चमे वर्षे क्षीरादेव निवर्तते ॥ २९ ॥ सुव्यक्तदन्त: स भवे (!) भवत्यतिविचेष्टितः । ततः क्षीरादपाहृत्तो दृक्षभङ्गं निषेवते ॥ ३० ॥ विविधं पद्धवं वैव चित्राणि यवसानि च । ते पुनः पांथुवातेन,तथा वप्रादिमर्दनैः ॥ ३१ ॥ क्षुधिता वारणा राजन्भक्षयन्ति मृदं सदा । पक्कसस्ये तथा काले गभीत्प्रभृति मृत्तिका ॥ ३२ ॥ वियोगाच्चान्नपानस्य विकाराय प्रकल्पते ॥ इत्येते हेतवः प्रोक्ता बहवो वनचारिणाम् ॥ ३३ ll % अत्र कदाचिकिचित्रुटितमेिव प्रतिभाति । ३६ १ ख. जरजन्ती ।