पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/281

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૬૭.૦ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने प्रसन्नया वा प्रक्षाल्यौ हस्तिमूत्रेण वा पुनः । तिलसर्षेपकल्केन वातकेऽभ्यञ्जनं हितम् । नस्त(स्य)कर्म च कर्तव्यं त्रिछूतेन भिषग्जिता । पटोलं चन्दनं मूर्वा गोलोमी कटुरोहिणी ॥ पाठया सह तुल्यानि गवां मूत्रेण 'पेषयेत् । एतेस्तैलं विपकं तु नस्पाभ्यञ्जनयेोर्हितम् ॥ पैत्तिके दन्तरोगे तु е ве в ве е ефее е е е | कफकृतदन्तरोगचिकित्सा (?) श्वेता कुष्ठं हरिद्रा च बिभीतकफलानि च ॥ तथा दारुहरिद्र च हरीतक्याः फलानि च । साम्बष्ठा च मही धात्री भल्लातकफलानि च ॥ रोहिण्पतिविषा चैव वचा हैमवती तथा । अजामूत्रेण पिधैस्तु तैलमेभिर्वपाचयेत् । नस्याभ्यञ्जनयोगेन प्रशस्तं सुकृतं भवेत् ॥ नक्तमाल्यास्तु तैलं तु हितं वै सांनिपातिके । अथवा कुष्ठसंयुक्त तगरेण हरिद्रया ॥ सुक्हाकटुरोहिण्या तेजोवत्यास्तथैव च । मुस्तया हिङ्गना वैव तेल्ठं सम्यग्विपाचयेत् ॥ दन्तरोगेषु सर्वेषु तैलमेतत्प्रशस्पते । वेष्टयैोम्रक्षणे नित्यं नागस्य मनुजाधिप । पिप्पलीगृङ्गवेरेण मरिचैर्मुस्तकेन च । आढकीबंोजसंयुक्तै दृश्विकाल्पास्तथैव च । तथा कटुकरोहिण्या तेजोवत्यां तथैव च ॥ तेलं सहातिविषया भिषक्सम्यग्विपाचयेत् । एतदृभ्यश्नने नस्ये प्रशस्तं दन्तरोगिणाम् ॥ पारापतं च भव्यं च वीरं च सपक्षकम् । तथा पटोलं सक्षौद्रं तैलेन सह पाचयेत् ॥ ज्ञात्वा दग्धमनामं च ततस्तदवतारयेत् । तैछेन तेन श्रवणस्रोतसोरनुषेव(च)नम् ॥ १ ख. पीषयेत् ॥ २ क. °योरीक्ष° । ३ क. "त्यास्तथै° ।