पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ वृद्धचिकित्साध्यायः ] हस्त्यायुर्वेदः । । २४९ पूर्व विश्रा(स्रा)वणं कार्य ततोऽस्य नखशोधनम् ॥ प्रलेपो बहुशश्वास्य वातम्रै: संप्रलेपंयेत् । एवं पूर्वक्रमं कृत्वा महास्नेहेन स्नेहयेत् । बस्त्यभ्यङ्गाच्छयानाति(!) त्रिदेिन भिषग्वरः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने पवगण्डशिरो नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ अथ द्वाचत्वारिंशोऽध्यायः ।। ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् । प्टृच्छति स्म रोमपादः सहस्राक्षसमद्युतिः ॥ चर्मकीलाः संभवन्ति साध्यन्ते वा कथं पुनः। एवं प्रष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ यद्ा प्रकुपितं पित्तं त्वचमाश्रित्य तिष्ठति । तच्छोष्यमाणं वातेन कदम्बमुकुलीकृतान् ॥ चर्मैकीलान्संजनयेतेषां वक्ष्यामि साधनम् । क्षारशास्त्राग्निकर्माणि यथायोगं तु कारयेत् । कषायतिक्तलवणेर्धावनालेपनानि च । तेरेव पक्स्नेहस्तु म्रक्षणे सततं हितः ॥ लशुनानि हरिद्रे द्वे पिप्पल्यैो मरिचानि च । सर्षपान्ग्र(न्गृ)हधूमं च गवां मूत्रेण पी(पे)षयेत् ॥ एतद्ालेपनं श्रेष्ठं चर्मकीलविनाशनम् । द्विव्रणीयोपचारेण व्रणाक्षातांश्च साधयेत् ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चर्मकीलो नाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥ अथ त्रयश्चत्वारिंशोऽध्यायः ।। अतः परं प्रवक्ष्यामि छ्रुद्धस्य परिरक्षणम् । वयोमध्यं व्यतिक्रान्ते वायुः श्लेष्मा मकुष्पति । १ क. °पनैः । ए° ॥ २ क. वा । A*