पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ तलकाशौ नामाध्यायः ] इस्लायुर्दैव' , २२५ न्दर्भीरु च पगसफलशतावरीशृङ्गाटककसेरुकपञ्चबीजानि वनसात्म्यानुलोमिर्क भक्ष्यं दद्यात् । यवसान्यौदकानि विचित्राणि मृदूनि हरितानि वनसात्म्यानुलोमिकं भक्ष्यं दृद्यात् । भल्लातकमधुक्षीरकोमलकल्कं सकपोतनाद्युतं केाञ्चनवग्रहणां मनःसंतापदं वा वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् । कदलीभल्लातकपारामधूकारिवदनामूलानि नवग्रहाणां• वातगुल्मप्रशमनार्थ वनसात्म्यानुलोमिकं भक्ष्यं दृद्यात् । अश्मन्तकgक्षपनसशल्लकीचन्दनशिारीषिकाभल्लातकमधूकप्रियालानां मूलानि यवगण्डासारगलग्रहवमथुवातश्लेष्मविकारप्रशमनार्थ वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् । तत्र श्लोक: उत्सृज्य सर्वकर्माणि मुखद्वाराणि शोधयेत् । अन्त्रायत्तं हि नागानामारोग्यं जीवितं बलम् ॥ मुखद्वारविशुद्धस्य वारणस्य महीपते । रोगाः सम्यक्प्रशाम्यन्ति बळं मांसं च वर्धते।। 1।। इति श्रीपालकाप्ये हसूयायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वनसात्म्यानुलोमिकनामा सप्तविंशोऽध्यायः ॥ २७ ॥ अथाष्टाविंशोऽध्यायः ।। अङ्ग्रे हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । तलकाशों सभैषज्यं सनिदानं प्रचक्ष्व मे ॥ तस्मै प्रोवाच भगवानङ्गाप परिपृच्छते । तलकाशीं सभैषज्यं सनिरुक्तं ससंभवम् ॥ रक्तपित्तकफाः कोष्ट सूवाताः कुपिता यदा । तले यतः प्रकाशन्ते तलकाशी ततस्तु सः ॥ स दुर्बलस्ततो नागः शरधानाइमलोष्ठमु ॥ स्थाणुनाsभिहि(हृ)तो वाऽपि घृष्ठो वा परिधावनात् । मूर्वेमयुक्तो मुक्तो वा तथाऽतिगमनादपि ॥ नदीतटगिरीणा वा विषमाण परिक्रमात् । शर्करादग्धभूमीनामूषराणां च सेवनात् ॥ १ क. काञ्चनं नवग्रहाणां । २ क. °मिकं ना° । **。