पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ कृशाध्षाय: ] हस्त्यायुर्वेदः । । २२१ ॐपव्यर्तुसुखसह च सुखस्थानं च वारणः । भवेत्सुखावलानश्च यथासुस्वपरिक्रमः ॥ पेशलैर्मधुरैः स्रिग्धैर्वृहणीयैरुपाचरेत् । मक्षिीणं णजं सम्यग्यवसे: पानभोजनैः ॥ वक्ष्यति समदोषश्च मदोत्पत्तिविनिश्चयम् ॥ मनीषिभिमेदो दृष्ठः स्वस्थवृत्ते तु हस्तिनाम् ॥ सोपद्रवचिकित्सा च प्रभिन्नेधु प्रपद्यते । मेदे व्यय(प)गते क्षीणं तं सम्यग्बृंहयेद्गजम् ॥ इक्षुभिः शालिपादेन दूर्वया हरितैस्तृणैः । पल्छर्वे: कुवलैश्चैनं तर्पयेद्विधिवद्भिषक् । एवं यस्तर्पयेत्सम्यग्बृंहणीयैरुपक्रमैः । समुद्रवसनां कृत्वा सं राजा वसुथां जयेत् ॥ आरोग्या बलवन्तश्व वारणास्तस्य भूमिप । भवन्ति संधेयमदा: संग्रामे च जयावहाः ॥ योगेनैतेन राजेन्द्र यस्तु प्रक्रमते द्विपान् । कालाः कालेषु माद्यन्ति वयोतीता अपि द्विपाः ॥ ये च नष्टर्नुका नागा ये चर्तुमुनियोजिताः । सुपुष्टाश्चापि ते राजन्मदं ग्रह्णन्ति। वारणाः । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन पचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने महापाठे मदक्षीणो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः ।। बभूव र्राजा प्रथितः प्ठंथिव्पां महाधिपः इाक्रसमप्रभावः । हुताग्निहोत्रं परमं मुनीनां सत्सत्यवेदृव्रतधर्मयुक्तम् । राजा द्विपानां हितकाममूचे तं पालकाप्यं शिरसा प्रणम्य । यः पोष्यमाणो विविधैः प्रयोगैर्नाssप्यायते क्षीयत एव नागः ॥

  • ‘पञ्चर्तुं सुखशय्यं' इति भवेत् ॥

१ ख. मद्ये वय° ॥ २ क. स च राजा वसुंधराम् ॥ आ° ॥ ३ ख. ये चात्र सु° ॥ ४ क. ख. राज्ञा ॥ १ क. प्रोष्पमाणो । t