पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ हस्तग्रहणाध्यायः ] । । हस्त्यायुर्वेदः + २११ म्लानं वातेन परुषं इयावँ वात्यर्थवेदनम् ॥, संनिपातातु दोषाणां सर्वलिङ्गानि लक्षयेत् ॥ १६ ॥ व्यक्तानि सर्वलिङ्गानि मेढूस्थानगतानि च ॥ निष्क्रष्टुं तत्पवेष्टुं वा वेदनार्तो मतङ्गजः ॥ १७ ॥

  • な " ه ها ه ه۰ ه * @

•ge• न इाक्ोति प्रवेष्टुं वा निष्क्रष्टुं शूनमेहनम् ॥ अथ कोशस्थमेट्रो वा मूत्रं कृच्छ्रेण मेहति । निष्कृष्टमिव शूनं हि प्रलम्बं चास्य दृश्यते ॥ वेदनार्तश्च मातङ्गो वालुकापाथुकर्दमै: । जलेन चाप्यवकिरेत्सततं बहुशो गजं: ॥ क्रिमयो वाऽस्य जायन्ते इीर्यन्ते वारि सर्वशः । काला-वर्तनान्मेढूसंवादव्याधिना नृप ॥ एतैनैिदानैजानीयान्मेढूक्षाणीं गजस्य च । । चिकित्सितमतस्त्वं च शृणु कीतर्यतो मम । उत्पृन्नमात्रसंबन्धे नुतकां (?) प्लावपेद्रजम् । अमुत्तेष्वनुमुक्तेषु लिङ्गं शूनं भवेद्यदि । विमुक्तश्चक्रो मातङ्गः सद्यः संपद्यते सुखी । अत्यङ्गं यदि शूनं स्याच्छतधौतेन सर्पिषा । सर्पिर्मण्डेन वा मेढूं बहुशः परिषेचयेत् । प्रकृतेः सह्यते नास्य सर्वमेको विधीयते । क्षारवृक्षत्वचोभिर्वा सिद्धं मधुरकैर्घृतम् । शतावर्या च निष्काथे बलाभ्यां मधुकेन च ॥ सम्यक्सिद्धं सदुग्धं च तदभ्यञ्जनमिष्यते । उदुम्बरत्वकल्केन घृतमिश्रेण लेपनम् ॥ त्वग्भिर्वा क्षीरवृक्षाणां सघृताभिः प्रलेपयेत् । सजौर्जुनेन्द्रहृक्षाणां सङ्क्रुद्धकीसोमवल्कयोः । धवाश्वकर्णतिनिशत्वग्भिव क्काथयेजलम् । पादावशिष्टं संश्ना(स्रा)व्य मेढूक्षाणी विलीयते+ ॥

  • त्रुटितमिवाऽऽभाति ॥ + इतः परं मेढूक्षाण्यध्याये कियान्पाठखुटितः पुस्तकद्वयेऽपीति ज्ञायते ।

१ क. °जः ॥ तत्र रेखाश्व जा° । २ क. °र्तनना° । ३ ख. “क्त বাসু"।