पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-(० सर्पदंशध्यायः ] ' छ्स्यायुर्वेदः । । १८५ ततो विर(रि)तद्दोषं तु सेचयेद्वरणं भिषक् ॥ अगहं पाययेशेनं पूषॆमुक्तं गजं ततः ॥ ११३ ॥ शिरश्व पीड्यते चास्य कराच्छेषमा प्रवर्तते ॥ मुखाश्च लाला श्र(स्र)वति वमथुश्च मुहुर्मुहुः ॥ ११४ ॥ इमं तत्र विाधं कुर्यात्क्षिपमेव विचक्षणः ॥ *श्वेतां ज्योतिष्मतीं पाठं मृवहामथ वारुणीम् ॥ ११५ ॥ सुनन्दाँ लावनन्दां च विडङ्गं चाष्टमं भवेत् ॥ एतानि समभागानि कल्कपिष्ठानि कारयेत् ॥ ११६ ॥ ("आन्तरिक्षेण पयसा वाससा च परिश्रु(खु)ते । ह्याढकं त्र्याढकं वाऽपि तं रसं पाययेद्भिषक् ॥ ११७ ॥ ) शिरो विरिच्यते तेन विषं वास्योपशाम्यति ॥ ह्याढकं घृतमण्डस्य विर(रि)क्तशिरसस्तथा ॥ ११८ ॥ अनुषेकं पुनः कुर्यात्ततंः स लभते मुखम् ॥ अञ्जनं च ततो दद्याद्येन संपद्यते मुस्वी ॥ ११९ ॥ मनःशिलां त्रिकटुकं हरितालं रसाञ्जनम् ॥ ' कतकं सैन्धवं चैव मधुकं च समं घृतम् ॥ १२० ॥ क्षौद्रेण सह संयोज्य श्लक्ष्णं दृषदि 'पेषयेत् ॥ रार्जीमता तु दष्टस्य गजस्य हेितंमञ्जनम् ॥ १२१ ॥ अश्वकर्णकषायस्य कर्णिकारार्जुनस्य च ॥ तृतीयं बृहतीबीजमेते भागान्त्रयः समाः ॥ १२२ ॥ अर्धभागस्तु रालायाः मुनन्दायास्तथैव च । क्षौद्रेण सह संयोज्य अञ्जनं सांनिपातिके ॥ १२३ ॥ अथवाऽञ्जितमात्रस्य सेचयेद्वारिणा शिरः । कुर्याच्छिरस्यावाश्वांतं प्रदेहैश्च प्रदेहयेत् ॥ १२४ ॥ इत्येतत्सर्पदष्टस्य लक्षणं सचिकित्सितम् ॥ अङ्गराजस्ततो भूपः पालकाप्यं स्म पृच्छति ॥ १२५ ॥ अांज्जते विषपीते च धूपगन्धानुवासिते ॥ सैंविषे कुञ्जरे रूपं भगवन्वक्तुमर्हसि ॥ १२६ ॥

  • लावनन्दान्तानां प्रथमान्तत्वं युक्तम् । f धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ ख. “तः सुल” । ९ ख. पोषयेत् ।। ९ क. ९तमुत्तमम् ।। ४ क. सविषं । ጙY