पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ पालकाप्यमुनिविरचितो– [१ क्षुद्ररोगस्थाने निषङ्गुरूांस्तथाऽनन्तां समङ्गां धातकों तथा ॥ मुवर्णेपुष्पीं दृचातुं इाडिमह्वयमेव च ॥ ९८ ॥ द्राक्षारोधं च शाल्ठं च चन्वर्न चात्र ६ापपेत् ॥ एतत्संभ्रुत्य संभारं समाँशं तुलपां ध्रुतम् ॥ ९९ ॥ अज्ञामूत्रेण संख्रष्ठं गवां मूत्रेण पेषयेत् ॥ अभपामलकाक्वार्थ काथयेताम्रभाजने ॥ १०० ॥ ततो यूषं परिश्रा(स्रा )व्य तान्कल्कॉस्तत्र दापयेत् ॥ ततः क्षौद्रेण संसृज्य पाययेद्दन्तिनं भिषक् ॥ १०१ ॥ पीतोऽयमगश्रेिष्ठो हन्ति राजीमतो विषम् ॥ अथान्यानगदान्कुर्यात्संनिपाते ततो भिषक् ॥ १०२ ॥ संसृष्टं पाययेचेनं वातपित्तकफापहम् ॥ . तं पीतवन्तमनु च वारिणा सेचयेद्गजम् ॥ १०३ ॥ स्थानं सुशीतलं कुपीच्छीतैश्व परिषेचनम् ॥ अञ्जनं च ततः कुर्याद्येन चक्षुर्विश्रुध्यति ।। १०४ ।। गिरिकर्णिकां श्वेतां च हरिद्रां सैन्धवं तथा ॥ शिरीषबीजं लशुनं समभागानि कारयेत् ॥ १०५ ॥ कर्नूरं च जले पिष्टा गुटिकां संप्रदापयेत् ॥ दृर्वोंकरेण दृष्ठस्य चक्षुषो हितमञ्जनम् ।। १०६ ॥ कालानुसारी मृद्वीका काश्मर्याऽथ शिरीषकम् ॥ गुडूचीरससंयुक्तमश्नानं गुटिकांकृतम् ॥ १०७ ॥ एतन्मण्डलिदृष्टानां चक्षुषां हितमञ्जनम् । स्थानं शीतं ग्रहं कुर्याद्गोमयेन प्रलेपयेत् ।। १०८ ।। अथ चेत्कुञ्जरो वेगं तृतीयमतिवर्तते । इमं तत्र विधि कुर्यात्क्षिप्रमेव विचक्षणः ॥ १०९ ॥ तृKनि )ऋद्दन्ती च इमामा च नागदन्ती प्रियङ्गवः । उदुम्बरसमान्कल्कान्सर्वाण्येव पृथक्पृथक् ॥ ११० ॥ एतत्संभ्रुत्य संभारं कुञ्जरं पाययेद्भिषक् । ल्वणाम्बुसमायुक्तं मृत्पात्रे विमले स्थितम् ॥ १११ ॥ tवरेचनं भिषग्दद्याद्दर्वीकरविषापहम् ॥ कषायपतिसंयुक्तं राजीमत्सु विधीयते ।। ११२ ॥ १ क. चिरंतनं ।