पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्पदष्टाध्यायः ] • हस्त्यायुर्वेद: 1 * ; १८३ एतत्कल्कं झपिष्ठं वै घृतेन सह योजयेत् ॥ कर्दमेन समालोठ्य दंशशोफं प्रकल्पयेत् ॥ ८३ ॥ लभते तेन निवोणं विषं चास्योपशाम्यति ॥ लिप्तस्यानेन लेपेन पानमस्याचssरेद्विदम् ॥ ८४ ॥ घृतद्रोणं तु पयसो निर्दोषस्याssढकं भवेत् ॥ यष्टीमधुकचूर्णस्य भवेतु कुडवद्वयम् ॥ ८५ ॥ पिप्पलीनां च भागः स्यान्मरिचानां तथैव च ॥ श्वेतायाः कुडवः कार्यो मुद्गपण्यास्तथैव च ॥ ८६ ॥ मृणालं च पयस्यां च जीवकर्षभकावुभौ । एलां चैव विडङ्गं च स्वर्जिकां परिपेलवम् ॥ ८७ ॥ सर्वाणि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ अर्धमस्थो विडङ्गस्य सैन्धवस्य तथैव च ॥ ८८ ॥ यवक्षारस्य भागः स्यात्सर्वेमेतद्ब्रवीकृतम् । पीत्वा सुखमवाप्नोति विषाच्च परिमुच्यते ॥ ८९ ॥ वातिकानां विधिः प्रोक्तः पैत्तिके च बॆवक्ष्यते ॥ अनन्तां च पयस्यां च मुद्गपणाँ तथैव च ॥ ९० ॥ मृणालीं हंसपादों च जीवकर्षभकावुभौ । काकोलों क्षीरकाकोलों मेदां छिन्नरुहां तथा ॥ ९१ ॥ क्षीरशुक्लां विदारीं च श्यामामतिविषां तथा ॥ दर्भेक्षुवालीपुण्हेक्षु मृद्वीकां च परूषकम् ॥ ९२ ॥ ततः पटोलकं चैव माषपणाँ च दापयेत् ॥ दुरालभां मधुरसां सारिवां श्वेतया सह ॥ ९३ ॥ तथा कर्कटशृङ्गीं च समभागानि कारयेत् ॥ मधुकं मरिचं चैव क्षबकं चैलुपा सह ॥ ९४ ॥ तथा कर्कटशृङ्गीं च नागरं चैलवालुकम् ॥ पीलुं करश्नं मञ्जिष्ठामेतद्दिगुणभागिकाम् ॥ ९५ ॥ गवां मूत्रेण संयोज्य तथा गुप्त निधापयेत् ॥ एतत्सर्व समालोड्य घृतद्रोणे समावपेत् ॥ ९६ ॥ माक्षिकस्याऽऽढकं दत्त्वा वारणं पाययेद्भिषक् । एष श्रेष्ठोऽगदः कापे: पैत्तिके पापयेद्विषे ॥ ९७ ॥ १ क. प्रचक्षते ।