पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८● पालकाप्यमुनिविरचितो– [१ क्षुद्ररोगस्थाने राजीमद्दष्टनागानामेतद्भवति लक्षणम् ॥ इति जङ्गममुष्टिं विषं स्थावरमुच्यते ॥ १८ ॥ उष्णं स्रुक्षं तथा चाssम्लं लघु तीक्ष्णं व्यवायि च ॥ विदाहि वाssथु विश्ादशेवं नवगुणं विषम् ॥ १९ ॥ पित्तं प्रकोषयत्योष्ण्याद्भोक्ष्याश्च पंचमं कफम् ॥ सौक्ष्म्पातिविदाहिस्वात्सर्वेधातुप्रदूषणम् ॥ ४० ॥ (*:गच्छत्यूध्र्व लघुत्वाच्च तीक्ष्णत्वान्मर्मभेद्यपि ॥ आधु व्याप्नोति शीघ्रत्वाद्वेशाद्याश्च विसर्पति ॥ ४१ ॥ ) श्रो(स्रो )तोरोधि ब्यवायित्वान्नवधोक्तं पभावतः । इति स्थावरमेतस्य शृणु साध्यस्य लक्षणम् ॥ ४२ ॥ पुष्करं मधुसंकाशं शूनं वाऽप्युपलक्षपेत् ॥ दन्ताः श्यावा विवर्णाश्व नखाश्च नयने तथा ॥ ४३ ॥ शीर्यन्ते चास्य रोमाणि देंझते च र्मतङ्गजः ॥ पक्ष्माणि चास्य शीयन्ते छविश्व परिपाद्यते ॥ ४४ ॥ केशा वालाश्च शीर्यन्ते शिरोरोगश्व जायते ॥ जिह्वा च लक्ष्यते कृष्णा कुत्सिता पृथिवीपते ॥ ४५ ॥ रूपैरेतैर्विजानीयाद्विषपीतं मतङ्गजम् ॥ छद्येतीसारसंमोहाः कम्पोऽतीव विजृम्भणम् ॥ ४६ ॥ रक्तविश्रु( स्रु )ति साश्रुत्वं दृशोर्मन्दाङ्कचेष्टितम् । रक्तमूत्रपुरीषत्वं मेढूपेचकशूनता ॥ ४७ ॥ इत्येतदन्परूपाणामभावे विषलक्षणम् ॥ स्थावरस्य विषस्येतहूपं भवति पार्थिव ॥ ४८ ॥ धूपस्य विषयुक्तस्य शृणु रूपं नराधिप । धूपश्चाग्निगतो ज्ञेयो न(नी )लो रकोऽथ पीतकिः ॥ ४९ ॥ जिघ्रन्गजस्तु तं धूपमतीसारेण पीड्यते ॥ गात्रोद्वेष्टनमाप्नोति वेपते व्यथतेsपि च ॥ ५० ॥ बृंहितुं च न शक्नोति शब्दांश्चापि न वेत्ति सः ॥ इति धूपेन ढुष्ठस्य लक्षणं समुदाहृतम् ॥ ५९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. वपनं । २ क. दह्यन्ते । ३ क, मतङ्गजाः ।