पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/190

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्पदष्टाध्यायः] - इस्यायुर्नेद: । १ । । १७९ राजिलानां भुजङ्गानां विषं श्लेष्मण्यं भवेत् ॥ अफणास्त्वेकवर्णाश्च पन्नगा ये पताकिनः ॥ २३ ॥ राजिमद्भिः समं तेषां विषं समवेतारयेत् । एषामन्योन्पसंसर्गात्प्रविभागाद्विशेषतः ॥ २४ ॥ ज्ञापन्ते पन्नगाः सर्वे ते च कृच्छ्रतमाः स्मृताः ॥ आदंशेनैव जानीयात्सर्पदष्टं मतङ्गजम् ॥ २५ ॥ निमीलपति नेत्रे च व्रजन्गात्राणि कर्षति ॥ अक्षिकूटे च वर्धेते वर्त्मनी चापि दृन्तिनः ॥ २६ ॥ चिरं क्षतानि चाप्यस्य स्फुटन्ति सहसा ऋप । निषीदृत्यपराभ्यां च प्रोहाभ्यां प्रपतत्यपि ॥ २७ ॥ स्तम्भे बद्धस्तु मातङ्ग आलानेन दृढेन च । उद्धश्नाति च दुःखात दंशदेशं स्पृशत्यपि ॥ २८ ॥ मन्दं भोजनमश्नाति यवसे मन्दमेव च ! अधोगता भवत्यस्य दृष्टिनागस्य पार्थिव ॥ २९ ॥ दर्वीकरापदृष्टानामेतद्भवति लक्षणम् ॥ o अथ मण्डलिदष्टस्य शृणु रुपं नराधिप ॥ ३० ॥ परिशुष्येद्यदा दंशो धूप्यते परिदह्यते ॥ निद्रा बलवती यस्य कम्पते च पुनः पुनः ॥ ३१ ॥ पूतमूत्रपुरीषश्च श्वयथुश्चाप्युद्दीर्येते । व्रणाश्चापि विदीर्यन्ते तृष्णा चैनं प्रबाधते ॥ ३२ ॥ . तृष्णार्तेस्य च नागस्य लक्षणं यत्मवतते ॥ निर्वाणं नीयते पत्र तं देशं प्रतिजिघ्रति ॥ ३३ ॥ आद्रं वा परिश्रुष्कं वा तृणेमिक्षुमथापि वा ।। पिपासया समाक्रान्त आहारं नाभिनन्दति ॥ ३४ ॥ अनेन विषवीर्येण क्षिप्रमेव विदीर्यते ॥ एवं मण्डलिदष्ठस्प लक्षणं च प्रकीर्तितम् ॥ ३५ ॥ राजीमतां विषं घोरं यदा देहे प्रवर्तते ॥ श्वयथुर्हैस्तकर्णेऽस्य लाला पस्यन्दते तदा ॥ ३६ ॥ आटोपी लक्ष्पते चास्य विह्वलं चापि गच्छति ॥ श्वेतमूत्रपुरीषश्च यथा ह्यन्धस्तथा स्खलन् ॥ १७ ॥ १ क. °वचार° । २ क. °लेिदृष्ट° ।