पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ पालकाप्यमुनिरिचितो- [२झुइरोगस्थाने दंष्ट्रा तु सर्पो यस्तत्रं पिबेरङ्गनिपीडितम् ॥ तृष्ठं र्तत्त्वनुबोद्धव्यं विषभागस्तु संचरेत् ॥ ९ ॥ दृष्टा यदि विलम्बी स्यान्निपीतमिति तत्स्मृतम् ॥ विषस्य भागौ द्वावत्र अर्धभागश्च संचरेत् ॥ १० ॥ दंष्ट्रा भ्रंशं तु यः सर्पः क्षिप्रमेव मवर्तते । दंष्ट्रापातनिषेकेण कुरुते यत्र मोक्षणम् ॥ ११ ॥ दृष्टमुद्वर्तितं विद्यात्तत्र भागत्रयं व्रजेत् । मात्राणां इातमात्रं तु तिष्ठन्त्यार्दंशमाश्रितम् ॥ १२ ॥ ततः शारीरे क्रमते विषं वायुरिवाम्बरे । न ह्यत्र विहितं किंचित्सुखं दुःखं शारीरिणाम् ॥ १३ ॥ तेषां तु स्वलु सर्वेषामुपसर्गः छ्थग्विधः ॥ वक्ष्याम्युद्देशमात्रेण तद्वाह्यमनुमानतः ॥ १४ ॥ चतुर्विधास्तु निर्दिष्टाः पैन्नगा मुनिना पुरा ॥ दवींकरा मण्डलिनी राजिलास्तु पताकिनः ॥ १५ ॥ तेषां स्रुपाणि वक्ष्यामि वीर्यं चैव पृथक्पृथक् । दवॉकरा महाभोगा दीप्ताग्निसमतेजसः ॥ १६ ॥ शॆीघ्राः फणकराश्चण्डाः कृष्णसर्पादयः स्मृताः । क्षिप्रमेषां विषं काये कक्षाग्निरिव वर्धते ॥ १७ ॥ वातिकं तु विजानीयाद्विषं दंष्ट्राश्रितं भिषक् । पशाम्यति तु तस्क्षिपं मन्त्रैरन्येस्तथौषधैः ।। १८ ।। तद्धि सत्यं विषं प्राहुः समयांदं मनीषिणः । अफणा मण्डलैश्वित्रेर्ये तु केचिद्बुजंगमाः ॥ १९ ॥ एणीपदादयः सर्वे ते तु’मण्डलिनः स्मृताः । तेषां मन्दं विषं भूत्वा ततो भवति दारुणम् ।। २० ॥ तत्र मन्त्रोषधैर्यत्नात्पैत्तिकं बाध्यते विषम् । अफणा दर्शनीयाश्च दीर्घराजिभिरावृताः ॥ २१ ॥ श्वेतगन्धादयः सर्वे राजिला: कीर्तिता ऋष ॥ वेिषं न वर्धते तेषां विषमं चोपलभ्यते ।। २२ ।। १ क. दृष्ट्रा ।। २ क. °त्र यं पिबेदङ्गपी° । ३ क. तत्त्वं तु बो° । ४ क. यत्रगा । ख. पत्रगा । ९ क, ख. शीघा फणाक° ।