पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९श्रृिंपहः] ।। ं.एस्यांडुपॆहः। ওৈ৭ लाला विवर्त्तते चास्य चक्षुषा च न पश्यति ॥ शोफोsस्य गुंडुगिन्त्रेषु प्रदेशेषु विवर्धते ॥ ४ । । गजस्य दिग्धविद्धस्य द्वयमेतत्प्रकीर्तितम् ॥ तस्य कर्म प्रवक्ष्यामि यथा संपद्यते मुखी ॥ ५ ॥ गात्रापरपरिक्षिप्त नागं कृत्वा सुपब्रितम् ॥ शल्यमुद्धृत्य नागस्य शोधनं तस्य कारयेत् ॥ ६ ॥ सेचयेद्वारिणा वेधं प्रदेहैश्व प्रदेहयेत् ॥ त्वचमामलकीनां च स्वदिरस्य धवस्य च ॥ ७ ॥ समभागं ततः कुर्यात्समाहृत्य पृथक्पृथकू ॥ स्वण्डशः कल्पयित्वा वे काथयेद्दिव्यवारिणा ॥ ८ ॥ एतत्काथं परिश्रा( स्रा )ब्य भेषजानि समावपेत् । सोमवल्कं वचां चेतामोदकीपाटलां तथा ॥ ९ ॥ आस्फोतां वारुणीमूलं पयस्यां मधुकं यवान् ॥ तथेवोत्पलकन्दाश्च भागाः स्युः कर्षसंमिताः ॥ १० ॥ यथा जातः मदेहः स्यात्तदेनमवतारयेत् ॥ एवं खशीतलं कृत्वा विधं तस्यानुलेपयेत् ॥ ११ ॥ विषं हन्ति महीपाल क्षिपं च घुस्वमाप्नुयात् ॥ अथातः संप्रवक्ष्यामि विषप्रशमनं हितम् ॥ १२ ॥ चतुर्द्रोणे तु पयसि भेषजानि समावपेत् ॥ पयस्या क्षीरकाकोली अमृता द्वे च सारिवे ॥ १३ ॥ चेता च मुद्रपर्णी च माषपर्णी मृणालिका ॥ कसेरुका झनन्ता च जीवकर्षभकावुभौ ॥ १४ ॥ कपिकच्छूस्तथा देया पिप्पैली च महीपते ॥ उदुम्बरसमं कल्कं कारयित्वा पृथक्पृथक् ॥ १९ ।। तोयं दशाढकं दत्त्वा सर्पिषश्चाssढकं तथा ॥ आढकं शर्करायाश्च ततो मन्दाग्निना पचेत् ॥ १६ ॥ यदोपयुक्ततोयं स्यात्तदैनमवतारयेत् ॥ मुशीतलमिदं कृत्वा पानं दद्याद्विषापहम् ॥ १७ ॥ त्वचावुभे समानीय विदुलस्यार्जुनस्य च ll क्षीरिणां पादपानां च कोविदारकदम्बयोः ॥ १८ ॥ १ क. मुनिनिन्नेधु । २ क.°र्षकतावु' ।