पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ং সাধ: ) । & १७* वासुकिस्तक्षकचैव विषमुग्रं हरन्तु ते I अनन्तश्चैव भगवान्विषं हरतु ते स्वाहा ॥ ९८ ॥ जले रुद्रो जले ब्रह्मा जले ब्रह्म सनातनम् । जले वायुश्च सोमश्च निर्वेिषो भव कुञ्जर स्वाहा ॥ २९ ॥ मन्त्रैर्हृत्वा विषं तस्य वारणस्य चिकित्सकः । एतेषां तु पथालाभं पशूनां कारयेद्रसम् ॥ ३० ॥ नकुलानां वराहाणां प्रुषतानां च युक्तितः ॥ भक्षयित्वाऽथ मांसानि विषिणो भक्षयन्ति ये ॥ ३१ ॥ ओषधानि भिषक्तेषु शीघ्रमेवातिसंहरेत् ॥ पिप्पल्यो मरिचाश्चैव कल्पमैद्य(?)घृतं मधु ॥ ३२ ॥ गोमयस्य रसेनैव भावयेन्मतिमान्भिषक् ॥ सुस्निग्धमेतद्रसकं विषदुष्टं मतङ्गजम् ॥ ३३ ॥ कदुष्णं पाययेदेनं तेन संपद्यते सुंखी ॥ अनेनैव चै मांसेन भोजयेद्वारणं भिषक् ॥ ३४ ॥ पीत्वा तुं रसकं नागस्तेजस्वी बलवान्भवेत् ॥* न विषान्मरणं तस्य पदि जुष्टो महाविषैः ॥ ३५ ॥ सर्व विर्ष विषहते पीते तद्रसके गजः ॥ विषेण दूषितं नागं तैलं दूराद्विवर्जयेत् ॥ १६ ॥ पानेऽभ्यङ्गे तथा नस्ये घृतमेव प्रशस्यते ॥ अत ऊर्ध्वं क्रिया पस्य निखिलेन मशस्यते ।। ३७ । । शीते पद्यह्रदे नागं दष्टं क्षिप्रं विगाहयेत् ॥ अयं विषघ्नो दातव्यः पिण्डस्तस्मै चिकित्सकैः ॥ ३८ ॥ द्वे हरिद्रे वचा चैव पिप्पली मरिचानि च ॥ द्वौ करञ्जौ सं चैव बृल्मतिबलामपि ।। ३९ ।। एतत्संहृत्य संभांरं गव्यं श्रेष्ठं च यद्घृतम् ॥ बस्तमूत्रेण तत्सर्वे क्षोदृयित्वा विचक्षणः ॥ ४० ॥ अजानामथवाऽवीनां रक्तं क्षिप्रमुपार्जयेत् ॥ रक्तद्वयेन तं पिण्डं भोजयेद्वारणं भिषक् ॥ ४१ ॥ १ क, ख. सनातनः ।। २ क. सुखम्॥ ३ क. तु ॥ ४ ख. नु। ९ क. “म्॥ वत्समू” ।