पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगस्थाने इति ह स्माssह भगवान्पालकाप्यः । अथ यदा संयोनोपस्थानवर्तनवधबन्धहस्तियुद्धनागरायणसांग्रामिककर्मयोगान्मूर्खमहामात्रापचाराद्वारणोऽतिमात्रं बाह्यते, सान्त्बनपितलम्भनाति पदा योक्ता त्वरया कर्मलोभात्यमादाद्वा न प्रपच्छेत्; तदा वारणः कर्मातिनीतशोषेणाभिभूयते ॥ स विवर्णच्छविवैिच्छिन्नभिन्नपुरीषमभीक्ष्णं च मूत्रं रक्ताभं समुत्सृजति, उत्साहतेजोबवलणेौपहतशरीरो भोजनयवसकवलंपल्लवाभिनन्दी च न भवति ॥ तस्यैवं कर्मातिनीतव्याधिजुष्ठस्याऽऽदौ सर्वकर्मप्रतिषेधं कुर्यात् । यथाकालं चैनं कूलहरणं पांशुप्रमथनकर्दमहरणादिषूत्सृजेत् । ततश्चैनं प्रफुल्लकुंमुदोत्पलपद्मवानीरकन्दलीकदलीवालुकोपशोभितपर्यन्तेषु हंसचक्रवाककुररकारण्डवबककलहंससारसानुनादिततीरेषु सूर्याश्रुभिः संतमसलिलेषु सरः करेणुपरिवृतं यथाकाममवगाहयेत् । ततश्व *वृक्षगुल्मलतावगूढेषु वातसहितभूमिभागवनमदेशेषु मदवशाभिर्वारणं यथोत्साहं प्रचारयेत् । मनःप्रसादृनार्थं स्नेहदानविधिदृष्टेन चास्य वैिधिना स्नेहदानं कारयेत् । मुरां च सफाणितां दद्यात् । षष्टिकोदनं च सप्तर्पिष्कं भोजयेत् । यथाकालं यवसानि च मधुररसवीर्यविपाकान्यार्जवानि मत्स्र्याण्डकागर्भाणि भोजयेत् । अभिनयप्रतिनये चास्य यथाकालं कारयेत् ॥ so तेत्र श्लोक: पयोनुपाने रसभोजनेश्च साध्यं तदा ऋक्षगणप्रदानैः । उपक्रमेत क्रमशः प्रयत्नात्कर्मेीतिनीतं विधिवद्गजेन्द्रम् । इति श्रीपालकाप्ये हस्त्यायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने कर्मतिनीतो नाम पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः ।। आश्रमस्थमुपासीनं हस्तिशास्त्रविशारदम् ॥ हुताग्निकमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥

  • ‘वृक्षगुल्मलताप्रतानगूढे प्रवातातपरहिते शोभनप्रदेशे सहसा वारणं' प्रत्यन्तरे वा पाठः—इति कपुलके टिप्पणी ॥

१ क. °यातोप° । २ क. °नीतिशो? । ३ कं. "कुसुमोत्प° । ४ क. *मिषु भाव” । ९ क, अत्र । ९ क. ख. “मभिनी” । ७ क, ख. *र्माभिनी* ।